पुण्याहवाचन –
पुण्याहवाचनार्थं त्रीन् चतुरः पञ्च वा ब्राह्मणान् वृत्वा प्राङ्मुखो यजमानः कृताञ्जलिः पठेत्–
(सपरिवार यजमानले हातमा फूल, दुबो र फल लिएर भन्ने) –
ॐ अद्येह पूर्वोक्तसङ्कल्पसिद्धिरस्तु अमुकगोत्रः, अमुकशर्माहं करिष्यमाण (अमुक) कर्मणि मम गृहे भो ब्राह्मणाः ! ॐ पुण्याहं भवन्तो ब्रुवन्तु ३ । इति त्रिवारं पठेत् । ब्राह्मणाश्च– ॐ पुण्याहम् ३ इति त्रिः ।
ततो ब्राह्मणा–
ॐ पुनन्तु मा देवजनाः पुनन्तु मनसा धियः । पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मा ।।
ॐ अद्येह पूर्वोक्तसङ्कल्पसिद्धिरस्तु अमुकगोत्रः, अमुकशर्माहं करिष्यमाण (अमुक) कर्मणि मम गृहे भो ब्राह्मणाः । ॐ स्वस्ति भवन्तो ब्रुवन्तु ३ । ब्राह्मणाः– ॐ स्वस्ति ३ ।
ॐ स्वस्तिनऽइन्द्रोवृद्धश्रवाः स्वस्तिनः पूषाव्विश्श्ववेदाः ।
स्वस्तिनस्तार्क्ष्याेऽअरिष्टनेमिः स्वस्तिनो बृहस्पतिर्द्दधातु ।।
ॐ अद्येह पूर्वोक्तसङ्कल्पसिद्धिरस्तु अमुकगोत्रः, अमुकशर्माहं करिष्यमाण (अमुक) कर्मणि मम गृहे भो ब्राह्मणाः ! ॐ ऋद्धिं भवन्तो ब्रुवन्तु ३ । ब्राह्मणाः– ॐ ऋद्धिः ३ ।
ॐ सत्रस्यऽऋद्धिरस्यगन्म ज्योतिरमृताऽअभूम । दिवं पृथिव्याऽअध्यारुहामा विदाम देवान्त्स्वर्ज्योतिः ।।
ॐ अद्येह पूर्वोक्तसङ्कल्पसिद्धिरस्तु अमुकगोत्रः, अमुकशर्माहं करिष्यमाण (अमुक) कर्मणि मम गृहे भो ब्राह्मणाः ! ॐ वृद्धिं भवन्तो ब्रुवन्तु ३ । ब्राह्मणाः– ॐ वृद्धिः ३ ।
ॐ ज्यैष्ठ्यञ्चमऽआधिपत्यञ्चमे मन्युश्चमे भामश्चमे मश्चमेम्भश्चमे जेमा चमे महिमा चमे वरिमाचमे प्रथिमा चमे वर्षिमा चमे द्राघिमा चमे वृद्धञ्चमे वृद्धिश्चमे यज्ञेन कल्पन्ताम् ।।
ॐ अद्येह पूर्वोक्तसङ्कल्पसिद्धिरस्तु अमुकगोत्रः, अमुकशर्माहं करिष्यमाण (अमुक) कर्मणि मम गृहे भो ब्राह्मणाः ! ॐ कल्याणं भवन्तो ब्रुवन्तु ३ । ब्राह्मणाः– ॐ कल्याणम् ३
ॐ ॺथेमां वाचं कल्याणीमावदानि जनेभ्यः ।। ब्रह्मराजन्याभ्या ᳯ शूद्राय चार्ॺाय च स्वाय चारणाय च ।। प्रियोदेवानां दक्षिणायै दातुरिहभूया समयम्मे कामः समृद्ध्यतामुपमादो नमतु ।।
ॐ अद्येह पूर्वोक्तसङ्कल्पसिद्धिरस्तु अमुकगोत्रः, अमुकशर्माहं करिष्यमाण (अमुक) कर्मणि मम गृहे भो ब्राह्मणाः ! ॐ शान्तिं भवन्तो ब्रुवन्तु ३ । ब्राह्मणाः– ॐ शान्तिः ३ ।
ॐ द्यौः शान्तिरन्तरिक्ष ᳯ शान्तिः पृथिवीशान्तिरापः शान्तिरोषधयः शान्तिः ।। व्वनस्प्पतयः शान्तिर्व्विश्वेदेवाः शान्तिर्ब्रह्म शान्तिः सर्व ᳯ शान्तिः शान्तिरेवशान्तिः सामाशान्तिरेधि ।।
ॐ अद्येह पूर्वोक्तसङ्कल्पसिद्धिरस्तु अमुकगोत्रः, अमुकशर्माहं करिष्यमाण (अमुक) कर्मणि मम गृहे भो ब्राह्मणाः ! ॐ श्रियं भवन्तो ब्रुवन्तु ३ । ब्राह्मणाः– ॐ श्रीः ३ ।
ॐ मनसः काममाकूतिं वाचः सत्यमशीय । पशूना ᳯ रूपमन्नस्य रसो ॺशः श्रीः श्रयताम् ।।
ॐ गजाननं भूतगणादिसेवितं कपित्थजम्बू फलचारु भक्षणम् ।
उमासुतं शोक विनाशकारकं नमामि विघ्नेश्वरपादपङ्कजम् ।।
(यति पढेर हातमा लिएको फूल, दुबो र फल गणेशमा चढाइदिने र तलको मन्त्र पढेर ब्राह्मणहरूले यजमानलाई टीका लगाई सुपारी र आशीर्वाद दिने) –
ॐ श्रीर्वर्चस्वमायुष्यमारोग्यमाभिधात् पवमानं महीयते ।
धनं धान्यं पशुं बहुपुत्रलाभं शतसम्वत्सरं दीर्घमायुः ।।
ॐ मन्त्रार्थाः सफलाः सन्तु पूर्णाः सन्तु मनोरथाः । शत्रूणां बुद्धिनाशोऽस्तु मित्राणामुदयोऽस्तु वः ।।
अव्याधिना शरीरेण मनसा च निराधिना । पूरयन्नर्थिनामाशास्त्वं जीव शरदां शतम् ।।
पुस्तकपूजनम् – (पुस्तक तथा जपमालाको पूजा गर्ने) –
ॐ सरस्वतीं ॺोन्यां गर्भमन्तरश्विभ्यां पत्क्नी सुकृतं बिभर्ति । अपा ᳯ रसेन वरुणो न साम्नेन्द्र ᳯ श्रियै जनयन्नप्सु राजा ।।
ॐ शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं, वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् ।
हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां, वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ।।
ॐ पुस्तकवासिन्यै सरस्वतीदेव्यै नमः । ॐ जपमालिकायै नमः ।।