कृष्णाष्टमी व्रतपूजाविधि ः–
कर्मपात्र, गोदान, दियो, कलश, गणेश, रक्षाबन्धन आदिको पूजा गरिसकेपछि प्रधान देवताको रुपमा देवकी सहित श्री कृष्णको प्राणप्रतिष्ठा गरी पूजा गर्नुपर्छ ।
संकल्प ः–
पूर्व सङ्कल्प सिद्धरस्तु अद्येह अमुकगोत्रः …. शर्माहं÷देव्यहं मम श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं श्रीकृष्णजन्माष्टमी व्रताङ्गत्वेन आदौ दीप, कलश, गणेश, पूजनपूर्वकं यथामिलितोपचारैः देवकी सहित सपिरवार श्रीकृष्ण पूजनं तथा चन्द्रपूजनमहं करिष्ये ।
ध्यानम् ः–
ॐ सत्यव्रतं सत्यपरं त्रिसत्यं, सत्यस्य योनिं निहितं च सत्ये ।।
सत्यस्य सत्यमृतसत्यनेत्रं, सत्यात्मकं त्वा शरणं प्रपन्नाः ।।
ॐ नौमीड्य तेऽभ्रवपुषे तडिदम्बराय, गुञ्जावतं सपरिपिच्छ लसन्मुखाय ।
वन्यस्स्रजे कवलवेत्र विषाणवेणु, लक्ष्मश्रिये मृदुपदे पशुपाङ्गजाय ।।
ॐ कृष्णाय वासुदेवाय हरये परमात्मने । प्रणतः क्लेशनाशाय गोविन्दाय नमो नमः ।।
ध्यानम् समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

आवहनम् ः–
ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्त्रपात् । स भूमि ᳯ सर्वत स्पृत्त्वाऽत्यतिष्ठ्ठद् दशाङ्गुलम् ।।
आगच्छ भगवन् ! देव ! स्थाने चात्र स्थिरो भव । यावत् पूजां करिष्येऽहं तावत् त्वं संनिधौ भव ।।
आवाहनार्थे पुष्पं समर्पयामि । ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

आसनम् – (कुश चढाउने) ः–
ॐ पुरुषऽएवेद ᳯ सर्वं यद्भूतं यच्च भाव्यम् । उतामृतत्त्वस्येशानो ॺदन्नेनातिरोहति ।।
नानारत्नसमायुक्तं मुक्ताहार विभुषितम् । आसनं देवदेवेश गृहाण परमेश्वर ।।
आसनं समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

पाद्यम् – (जल) ः–
ॐ एतावानस्य महिमातो ज्ज्यायाँश्श्च पूरुषः । पादोस्य व्विश्वा भूतानि त्रिपादस्यामृतं दिवि ।।
नानातीर्थाहृतं तोयं सुगन्धिं पुष्पमिश्रितम् । पाद्यं गृहाण देवेश विश्वरूप नमोऽस्तु ते ।।
पाद्यं समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

अर्घ्यम् – (अर्घ्य को जल) ः–
ॐ त्रिपादूर्ध्वऽउदैत्पुरुषः पादोऽस्येहाभवत् पुनः । ततो विष्वङ् व्यक्रामत्साशनानशनेऽअभि ।।
गन्धाक्षतैश्च सहितं दधिदूर्वासमन्वितम् । अघ्र्यं गृहाण देवेश मया दत्तं हि भक्तितः ।।
अघ्र्यं समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

आचमनीयम् – (कपुर मिश्रित जल) ः–
ॐ ततो व्विराडजायत व्विराजोऽअधि पूरुषः । स जातोऽअत्यरिच्यत पश्चाद्भूमिमथो पुरः ।।
कर्पूरवासितं तोयं मन्दाकिन्याः समाहृतम् । आचम्यतां जगन्नाथ मया दत्तं हि भक्तितः ।।
आचमनीयम् समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

मधुपर्कम् – (दही, घ्यू र मह) ः–
ॐ दधि क्षौद्रमिदं शुभ्रं कपिलायाः सुगन्धिकम् । सुस्वादु मधुरं देव मधुपर्कं गृहाण भो ।।
मधुपर्कं समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

पुनराचमनीयम् – (शुद्ध जल) ः–
ॐ तस्माद्द्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् । पशूँस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ॺे ।।
ॐ शुचिर्वाप्यशुचिर्वाऽपि यस्य स्मरणमात्रतः । शुद्धिमाप्नोति तस्मै ते पुनराचमनीयकम् ।।
पुनराचमनीयं समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

पञ्चामृतम् स्नानम् (पञ्चामृतले छुट्टाछुट्टै स्नान गराउने)ः–

पयः स्नानम् – (दुधले स्नान) ः
ॐ पयः पृथिव्यां पयऽओषधीषु पयो दिव्यन्तरिक्षे पयोधाः । पयस्वतीः प्रदिशः सन्तु मह्ॺम् ।।
देवाद्यैर्वन्दिता धेनुः सर्वकल्याणदायिनी । त्वं क्षीरस्नापितो देव नित्यं शोकहरो भव ।।
पयः स्नानं समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

शुद्धोदकेन – (शुद्ध जल) ः–
ॐ आपोऽअस्मान्मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु । विश्व ᳯ हि रिप्रम्प्रवहन्ति देवीरुदिदाभ्यः शुचिरापूतऽएमि । दीक्षातपसोस्तनूरसि तान्त्वा शिवा ᳪ शग्मां परिदधे भद्रं वर्ण्णं पुष्यन् ।।
शुद्धोदकस्नानं समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

दध्ना – (दहीले स्नान) ः–
ॐ दधिक्राव्णोऽअकारिषञ्जिष्णोरश्वस्य व्वाजिनः । सुरभि नो मुखाकरत्प्रणऽआयू ᳫ षि तारिषत् ।।
पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् । दध्यर्पितं मया देव स्नानार्थं प्रतिगृह्यताम् ।।
दधिस्नानं समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

शुद्धोदकेन – (शुद्ध जल) ः–
ॐ आपोऽअस्मान्…
शुद्धोदकस्नानं समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

घृतेन – (घ्यूले स्नान) ः–
ॐ घृतं मिमिक्षे घृतमस्य ॺोनिर्घृते श्रितो घृतम्वस्य धाम । अनुष्वधमावह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ।।
रसानामुत्तमं त्वाज्यं देवानां च सदाप्रियम् । तेन त्वं स्नापितो देव मम कान्तिप्रदो भव ।।
घृतस्नानं समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

शुद्धोदकेन – (शुद्ध जल) ः
ॐ आपोऽअस्मान्…
शुद्धोदकस्नानं समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

मधुना – (महले स्नान) ः–
ॐ मधु व्वाताऽऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः ।।
मधुनक्तमुतोषसो मधुमत्पार्थिवᳯ रजः । मधुद्यौरस्तु नः पिता ।।
मधुमात्रो वनस्पतिर्मधुमाँऽअस्तु सूर्ॺः । माध्वीर्गावो भवन्तु नः ।।
यस्य धारणमात्रेण तृप्तिं यान्ति पितामहाः । मधुना स्नापितो देव नित्यं शोकहरो भव ।।
मधुस्नानं समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

शुद्धोदकेन – (शुद्ध जल) ः–
ॐ आपोऽअस्मान्…..
शुद्धोदकस्नानं समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

शर्करा – (सख्खरले स्नान) ः–
ॐ अपा ᳫ रसमुद्वयसᳯ सूर्ॺे सन्तᳯसमाहितम् । अपा ᳫ रसस्य ॺो रसस्तं वो गृह्णाम्युत्तममुपयामगृहीतोसीन्द्राय त्वा जुष्टङ् गृह्णाम्येष ते ॺोनिरिन्द्राय त्वा जुष्टतमम् ।।
इक्षुसारसमुद्भूता शर्करा पुष्टिकारिका । मलापहारिणी दिव्या स्नानार्थं प्रतिगृह्यताम् ।।
शर्करास्नानं समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

शुद्धोदकेन – (शुद्ध जल) ः–
ॐ आपोऽअस्मान्…..
शुद्धोदकस्नानं समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

गन्धोदकस्नानम् – (चन्दन मिश्रित जल) ः–
ॐ अ ᳯ शुनाते अ ᳯ शुः पृच्यतां परुषापरुः । गन्धस्ते सोममवतु मदाय रसोऽअच्युतः ।।
नानासुगन्धिद्रव्यं च चन्दनं रजनीयुतम् । उद्वर्तनं मया दत्तं गृहाण तव केशव ।।
गन्धोदकस्नानं समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

शुद्धोदकेन – (शुद्ध जल) ः–
ॐ आपोऽअस्मान्…..
शुद्धोदकस्नानं समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

वस्त्रम् – (पीताम्बरादि वस्त्र) ः–
ॐ तस्माद्यज्ञात् सर्वहुतऽऋचः सामानि जज्ञिरे । छन्दा ᳫ सि जज्ञिरे तस्माद्यजुस्तस्मादजायत ।।
पीताम्बरयुगं देव सर्वकामार्थसिद्धये । मया निवेदितं भक्त्या गृहाण जगदीश्वर ।।
वस्त्रयुग्मं समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

यज्ञोपवीतम् – (जनै) ः–
ॐ तस्मादश्वाऽअजायन्त ॺे के चोभयादतः । गावो ह जज्ञिरे तस्मात् तस्माज्जाताऽअजावयः ।।
दामोदर नमस्तेऽस्तु त्राहि मां भवसागरात् । ब्रह्मसूत्रं सोत्तरीयं गृहाण जगदीश्वर ।।
यज्ञोपवीतं समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

आभूषणादीनि – (गरहना) ः–
ॐ किरीटकुण्डलादीनि काञ्चीवलययुग्मकम् । कौस्तुभं वनमालां च भूषणानि भजस्व भो ।।
आभूषणं समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

चन्दनम् – (श्रीखण्ड चन्दन) ः–
ॐ तं ॺज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः । तेन देवाऽअयजन्त साध्याऽऋषयश्च ये ।।
श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् । विलेपनं सुरश्रेष्ठ प्रीत्यर्थं प्रतिगृह्यताम् ।।
चन्दनानुलेपनं समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

तिलयवा – (जौ तिल) ः–
ॐ धान्यराजाः स्वमाङ्गल्या विष्णुप्रीतिकरा यवाः । तस्मादेषां प्रदानेन ममास्त्वविकलं फलम् ।।

पुष्पम् – (फूल÷माला) ः–
ॐ श्रीश्चते लक्ष्मीश्च पत्क्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् । इष्णन्निषाणामुम्मऽइषाण सर्वलोकम्मऽइषाण ।।
इमानि पुष्पाणि मनोहराणि सुरासुराणामपि दुर्लभानि । कल्पद्रुमादि द्रुमजानि तानि पुष्पाञ्जलिर्मेऽस्तु सुखाय नित्यम् ।।
विविधपुष्पाणि समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

सिन्दूरम् – (देवकी आदिको लागि सिन्दुर र सौभाग्य) ः–
सिन्दूरं च वरं रम्यं भाले शोभाविवर्धनम् । पूरणं भूषणानाञ्च सिन्दूरं प्रतिगृह्यताम् ।।
दिव्यरत्नसमायुक्ता वह्निभानुसमप्रभाः । गात्राणि शोभयिष्यन्ति ह्यलङ्काराः सुरेश्वरि ।।
सौभाग्यद्रव्याणि समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

अङ्गपूजा – (फूल, तुलसीपत्र, लावा आदिले प्रत्येक अङ्गको पूजा गर्ने) ः–
ॐ गोविन्दाय नमः पादौ पूजयामि । ॐ माधवाय नमः जङ्घे पूजयामि । ॐ मधुसूदनाय नमः कटिं पूजयामि । ॐ पद्मनाभाय नमः नाभिं पूजयामि । ॐ हृषीकेशाय नमः हृदयं पूजयामि । ॐ सङ्कर्षणाम नमः स्तनौ पूजयामि । ॐ वामनाय नमः बाहून् पूजयामि । ॐ दैत्यसूदनाय नमः हस्तौ पूजयामि । ॐ हरिकेशाय नमः कण्ठं पूजयामि । ॐ चारुमुखाय नमः मुखं पूजयामि । ॐ त्रिविक्रमाय नमः नासिकां पूजयामि । ॐ पुण्डरीकाक्षाय नमः नेत्रे पूजयामि । ॐ उपेन्द्राय नमः ललाटं पूजयामि । ॐ हरये नमः शिरः पूजयामि । ॐ श्रीकृष्णाय नमः सर्वाङ्गं पूजयामि ।

तुलसीपत्राणि – (तुलसीपत्र÷मञ्जरी) ः–
ॐ ॺत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् । मुखं किमस्यासीत् किं बाहू किमूरू पादाऽउच्येते ।।
तुलसीं रत्नरूपां च हेमरूपां च मञ्जरीम् । भवमोक्षप्रदां नित्यमर्पयामि हरिप्रियाम् ।।
तुलसीपत्रं समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

धूप – (धूप बाल्ने) ः–
ॐ ब्राह्मणोऽस्य मुखमासीद्बाहूराजन्यः कृतः । ऊरू तदस्य ॺद्वैश्यः पद्भ्या ᳫ शूद्रोऽअजायत ।।
वनस्पतिरसोद्भूतो गन्धाढ्यो सुमनोहरम् । आघे्रयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ।।
धूपं आघ्रापयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

दीप – (बत्ती बाल्ने) ः–
ॐ चन्द्रमा मनसो जातश्चक्षोः सूर्ॺोऽअजायत । श्श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ।।
आज्यं च वर्ति संयुक्तं वह्निना योजितं मया । दीपं गृहाण देवेश त्रैलोक्य तिमिरापहम् ।।
दीपं दर्शयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

नैवेद्यम् – (पकाएको नैवेद्य) ः–
ॐ नाभ्याऽआसीदन्तरिक्ष ᳯ शीर्ष्णो द्यौः समवर्तत । पद्भ्यां भूमिर्द्दिशः श्रोत्रात्तथा लोका २ँ।। ऽअकल्पयन् ।।
अन्नं चतुर्विधं स्वादु रसैः षड्भिः समन्वितम् । भक्ष्य भोज्य समायुक्तं नैवेद्यं प्रतिगृह्यताम् ।।
नैवेद्यं समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

ऋतुफलम् – (फलफूल) ः–
ॐ ॺाः फलीनीर्ॺाऽअफलाऽअपुष्पा ॺाश्च पुष्पिणीः । बृहस्पति प्रसूतास्ता नो मुञ्चन्त्वᳯ हसः ।।
ॐ इदं फलं मया देव स्थापितं पुरतस्तव । तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ।।
फलादिनैवेद्यं समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

अपूपम् – (अपूङ्गो) ः–
ॐ त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पितम् । गृहाण सुमुखो भूत्वा प्रसीद परमेश्वर ।।
रम्भाफलं घृतं क्षीरं गोधूमस्य च चूर्णकम् । जातीपत्र लवङ्गैला शर्करागुडमिश्रितम् ।।
सपादं सर्वभक्ष्याणि चैकीकृत्य निवेदितम् । मया श्रद्धावता देव गृहाण जगदीश्वर ।।
अपूपनैवेद्यं समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

आचमनीयम् – (जल) ः–
ॐ ॺत्पुरुषेण हविषा देवा ॺज्ञमतन्वत । व्वसन्तोऽस्यासीदाज्ज्यङ्ग्रीष्मऽइध्मः शरद्धविः ।।
कर्पूरवासितं तोयं सुगन्धिं सुमनोहरम् । आचम्यतां जगन्नाथ मया दत्तं हि भक्तितः ।।
आचमनीयं समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

करोद्वर्तनम् – (चन्दन) ः–
ॐ श्रीखण्डं चन्दनं दिव्यं कर्पूरागरुमिश्रितम् । करोद्वर्तनकं देव गृहाण परमेश्वर ।।
करोद्वर्तनं समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

फलम् – (नरिवल) ः–
ॐ इदं फलं मया देव स्थापितं पुरतस्तव । तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ।।
नारिकेलादिफलं समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

ताम्बूलम् – (पान÷सुपारी) ः–
ॐ पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् । एलाचूर्णादिसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ।।
ताम्बूलं समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

दक्षिणा – (भेटी) ः–
ॐ हिरण्यगर्भ गर्भस्थं हेमबीजं विभावसोः । अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ।।
दक्षिणाद्रव्यं समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

चामरम् – (चमरले हम्कने) ः–
ॐ शशाङ्क करसंकाशं हिमडिंडिरपाण्डुरम् । प्रोत्सारयासु दुरितं चामरामरवल्लभ ।।
चामरं दोलयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

व्यजनम् – (मयूरको प्वाँखले हम्कने) ः–
ॐ शिखिपुङ्खसमायुक्तं शैत्यमानन्ददायकम् । व्यजनं दोलयामित्वामतः शान्तिं प्रयच्छ मे ।।
व्यजनं दोलयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

दर्पणम् – (ऐना देखाउने) ः–
ॐ दर्शनेन त्वमादर्श नूनं मङ्गलदायकः । शौर्य सौभाग्य सत्कीर्तिर्निर्मल ज्ञानदो भव ।।
दर्पणं दर्शयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

(माथिको पूजा सकिएपछि आफ्नो दीक्षा मन्त्र वा “ॐ नमो भगवते वासुदेवाय” भन्ने मन्त्र यथाशक्ति जप्ने)

नीराजनम् (आरती) ः–
ॐ आ रात्रि पार्थिवᳯरजः पितुरप्रायि धामभिः । दिवः सदा ᳫ सि बृहती वितिष्ठसऽआ त्वेषं वर्तते तमः ।।
ॐ इदᳯहविः प्रजननम्मेऽअस्तु दशवीरᳯसर्वगण ᳫ स्वस्तये । आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि । अग्निः प्रजां बहुलाम्मे करोत्वन्नम्पयो रेतोऽअस्मासु धत्त ।।
ॐ घृत वर्तिसमायुक्तं वह्निना योजितं मया । आरार्तिक्य प्रदानेन सन्तुष्टो भव सर्वदा ।।
चन्द्रादित्यौ च धरणीविद्युदग्निस्तथैव च । त्वमेव सर्वज्योतींषि तेन नीराजयाम्यहम् ।।
नीराजनं समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

कर्पूरदीप – (कपूर आरती) ः–
ॐ अग्निर्ज्याेतिर्ज्योतिरग्निः स्वाहा सूर्ॺो ज्योतिर्ज्योतिः सूर्ॺः स्वाहा । अग्निर्वर्चो ज्योतिर्व्वर्चः स्वाहा सूर्ॺो वर्चो ज्योतिर्वचः स्वाहा । ज्योतिः सूर्ॺः सूर्ॺो ज्योतिः स्वाहा ।।
कदलीगर्भसंभूतं घनसारं मनोहरम् । आरार्तिक्यमहं कुर्वे पश्य मे वरदो भव ।।
कर्पूरारार्तिक्यं समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

प्रदक्षिणा – (जल घुमाउने) ः–
ॐ सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः । देवा ॺद् द्यज्ज्ञन्तन्वानाऽअबध्नन् पुरुषं पशुम् ।।
यानि कानि च पापानि जन्मान्तरकृतानि च । तानि सर्वाणी नश्यन्तु प्रदक्षिणपदे पदे ।।
प्रदक्षिणां समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

पुष्पाञ्जली ः–
ॐ ॺज्ञेन ॺज्ञमयजन् तदेवास्तानि धर्म्माणि प्रथमान्यासन् । ते ह नाकम्महिमानः सचन्त ॺत्र पूर्वे साध्याः सन्ति देवाः ।।
नमः सर्वहितार्थाय जगदाधारहेतवे । साष्टाङ्गोऽयं प्रणामस्ते प्रयत्नेन मया कृतः ।।
ॐ त्राहि मां सर्वलोकेश हरेसंसारसागरात् । त्राहि मां सर्वपापघ्न दुःखशोकार्णवात्प्रभो ।।
सर्वलोकेश्वर त्राहि पतितं मां भवार्णवे । त्राहि मां देव देवेश त्वत्तो नान्योऽस्ति रक्षिता ।।
यद्वा क्वचन कौमारे यौवने यच्च वार्धके । तत्पुण्यं वृद्धिमायातु पापं दह हलायुध ।।
पुष्पाञ्जलीं समर्पयामी । ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

विशेषार्घ्यं दद्यात् – (अर्घ्य चढाउने) ः–
ॐ यद्दत्तं भक्तिमात्रेण पत्रं पुष्पं फलं जलम् । निवेदितं च नैवेद्यं गृहाण चानुकम्पया ।।
मन्त्रहीनं व्रिmयाहीनं विधिहीनं सुरेश्वर । यत्पूजितं मया देव परिपूर्णं तदस्तु मे ।।
साधु वाऽसाधु यत् कर्म यद्यदाचरितं मया । तत्सर्वं क्षम्यतां देव गृहाण परमेश्वर ।।
विशेषाघ्र्यं समर्पयामि ॐ भूर्भुवः स्वः देवकी सहित श्रीकृष्ण परिवारेभ्यो नमः ।

(यसपछि अर्घ्य पात्रलाई आफूतर्फ फर्काएर पूजा गरी फेरी पूर्व फर्काएर राखिदिने ।)
क्षमापनम् – (खाली हात जोडेर प्रार्थना गर्ने) ः
ॐ त्राहि मां सर्वग श्रीश हरे संसारसागरात् । पुष्कराक्ष निमग्नोऽहं मायाविज्ञानमत्सरात् ।।
त्राहि मां देवदेवेश त्वत्तो नास्तीह रक्षिता ।।

तते सोमं श्वेतपुष्पाक्षतैः पूजयेत् – (चन्द्रमालाई सेतो फूल र अक्षतादिले पूजा गर्ने) ः–
ॐ इमन्देवा असपत्क्न ᳮ सुवध्वम्महते क्षत्राय महते ज्यैष्ठ्याय महते जानराज्याऽयेन्द्रस्येन्द्रियाय इमममुष्य पुत्रममुष्यै पुत्रमस्यै विशऽएष वोमीराजा सोमोऽस्माकं ब्राह्मणाना ᳫ राजा ।।
ॐ भूर्भुवः स्वः यमुनातीरोद्भव आत्रेयसगोत्र श्वेतवर्ण भो सोम ! इहागच्छ इह तिष्ठ, ॐ सोमाय नमः । इति पाद्यादिभिरुपचारैः पूजयेत् ।।

(पूजन कार्य समाप्त भएपछि रातभर भजनकीर्तन गरी श्रीकृष्ण कथा श्रवण गर्ने र भोलिपल्ट बिहान आफ्नो नित्यकर्म सकेर संक्षिप्त सबै देवताकाे पूजन गरेर पूर्णपात्र, दक्षिणासंकल्प, विसर्जन लगायतका कर्म गरी प्रसाद लगाएर ब्राह्मण भोजन गराई कर्ताले पनि भोजन गर्ने ।)

पूर्णपात्रम् ः–
रौप्यं, ताम्रं, मृण्मयं वा यत्संभवं पात्रं फलवस्त्रद्रव्यसहितं षट्पञ्चाशदधिकद्विशतमुष्टि (२५६) परिमितं बहुभोक्तृपुरुषाहारपरिमितं वा तण्डुलयुतं पूर्णपात्रं सम्पूज्य –
(पूर्णपात्रको लागि २५६ मुठी वा धेरै खाने मानिसलाई एकपटकमा पुग्नेजति चामलमा फल, जनै, सुपारी र द्रव्य सहित राखेर पूजा गर्ने) ः–
ॐ पूर्णादर्वि परापत सुपूर्णा पुनरापत । वस्नेव विक्रीणावहाऽइषमूर्ज ᳯ शतक्रतो ।।

कुशादिकमादाय – (कुशपानी लिएर संकल्प गर्ने) ः
अद्येह पूर्वसंकल्पसिद्धिरस्तु……….गोत्र……….. शर्मा÷वर्मा÷गुप्त÷दासः सपरिवारसहितोऽहं मम आयुरारोग्य ऐश्वर्योत्तरोत्तर हर्षविजयोदयपूर्वकं दारिद्र्य दुःखदुर्भिक्ष्य–दौर्मनस्य दौर्भाग्योपसर्ग–महामारी–त्रासोल्कापात–निर्घातभूकम्पादि–सूचित–सकल–दोषोपशान्त्यर्थं दुःस्वप्न–सुस्वप्नता–वाप्तिपूर्वक–बालग्रह दशान्तर्दशा गोचरदशादि सकलदोषोपशमनार्थं बाह्याभ्यन्तर ज्वरातिसारापस्मार श्वासकासादि समस्तरोगाणां झटिति निवृत्तिपूर्वकमारोग्यतावाप्तये विशेषतः आध्यात्मिकाधिदैविकाधिभौतिकादि तापत्रयोपशमनपूर्वक धर्मार्थकाममोक्षादि चतुर्विध–फलप्राप्तये श्रुतिस्मृतिपुराणोक्त फलप्राप्त्यर्थं अद्य कृतैतत् दीपकलशगणेशपूजन पूर्वकं देवकी सहित श्रीकृष्ण परिवार पूजनकर्मणः अपूर्णस्य परिपूरणार्थमिदं पूर्णपात्रं प्रजापतिदैवतं ………..गोत्राय… शर्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददे ।

दक्षिणासङ्कल्पः (भूयसी दक्षिणा) ः–
हरिः ॐ तत्सत् पूर्वसंकल्प सिद्धिरस्तु ……………..गोत्र ……………..अहं मम श्रुतिस्मृतिपुराणोक्त फलावाप्तिपूर्वकं मनोवाञ्छासिद्ध्यर्थं श्रीकृष्ण जन्माष्टमी व्रताङ्गत्वेन कृतस्य दीपकलशगणेश गणपत्यादि–वनस्पत्यन्तदेवता पूजनपूर्वकं देवकी सहित श्रीकृष्ण परिवार न्यूनातिरिक्तता परिपूर्तिपूर्वकं यथोक्तफल प्राप्त्यर्थम् इदं दक्षिणाद्रव्यम् (अमुक) दैवतं नानानामगोत्रेभ्यो नानानामशर्मभ्यो ब्राह्मणेभ्यो कन्याकुमारेभ्यो दीनानाथेभ्यश्च यथायोग्यभागं विभज्य यथाकाले दातुम् अहम् उत्सृजे ।

विसर्जनम् – (फूलपाती चढाएर विसर्जन गर्ने) ः–
ॐ यान्तु देवगणाः सर्वे पूजामादाय पार्थिवीम् । इष्टकामप्रसिद्ध्यर्थं पुनरागमनाय च ।।
गच्छ गच्छ सुरश्रेष्ठ स्वस्थानं परमेश्वर । यत्र ब्रह्मादयो देवास्तत्र गच्छ सुरेश्वर ।।
आवाहनं न जानामि न जानामि विसर्जनम् । पूजां चैव न जानामि क्षम्यतां परमेश्वर ।।

कर्मेश्वरार्पणम् – (कुुशको औँठी खोलेर जलसहित हातमा लिएर भुईंमा राखिदिने) ः–
ॐ कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वानुसृतः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ।।

प्रार्थना – (खाली हात जोड्ने) ः–
ॐ यस्य स्मृत्या च नामोक्त्या तपोयज्ञव्रिmयादिषु । न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ।।
ॐ अच्युताय नमः ३
ॐ चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च । हूयते च पुनद्र्वाभ्यां स मे विष्णुः प्रसीदतु ।।
ॐ विष्णवे नमः ३ । कर्मेश्वरार्पणमस्तु ।

आशिषमन्त्रपाठ ः–
गन्धपुष्पप्रसादादिकं हस्तेन गृहीत्वा –
(यसरी पूजा सम्पन्न भएपछि सबै कलशको जल झिकेर कर्मपात्रमा राखी अभिषेक गर्ने र तलको आशिर्वादका मन्त्र पढेर कुलपितृहरूलाई प्रसाद छुट्याई टीकाटालो गर्ने) ः–
हरिः ॐ आब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायतामा राष्ट्रे राजन्यः शूरऽइषव्योतिव्व्याधी महारथो जायतान्दोग्ध्री धेनुर्व्वोढानड्वानाशुः सप्तिः पुरन्धिर्याेखाषा जिष्णू रथेष्ठाः सभेयो ॺुवास्य ॺजमानस्य वीरो जायतां निकामे निकामे नः पर्जन्यो वर्षतु फलवत्यो नऽओषधयः पच्यन्तां ॺोगक्षेमो नः कल्पताम् ।।
ॐ दीर्घायुस्तऽओषधे खनिता ॺस्मै च त्वा खनाम्यहम् । अथो त्वन्दीर्घायुर्भूत्वा शतवल्शा विरोहतात् ।।
ॐ पुनस्त्वादित्या रुद्रावसवः समिन्धतां पुनब्र्रह्माणो वसुनीथ ॺज्ञैः । घृतेन त्वं तन्वं वर्धयस्व सत्याः सन्तु ॺजमानस्य कामाः ।।
ॐ मनसः काममा कूतिं वाचः सत्यमशीय । पशूना ᳮ रूपमत्रस्य रसो ॺशः श्रीः श्रयताम् ।।

(यजमानलाई टीका लगाइदिने मन्त्र) ः–
ॐ श्रीर्वर्चस्वमायुष्यमारोग्यमाविधात्पवमानं महीयते । धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ।।
ॐ स्वस्त्यस्तु ते कुशलमस्तु चिरायुरस्तु गोवाजि हस्ति धनधान्य समृद्धिरस्तु ।
ऐश्वर्यमस्तु विजयोऽस्तु रिपुक्षयोऽस्तु सन्तानवृद्धिसहिता हरिभक्तिरस्तु ।।

।। इति श्रीकृष्ण जन्माष्टमी व्रतपूजाविधि ।।

 

कमेन्ट छाेड्नुहाेस्

Please enter your comment!
Please enter your name here