तर्पणविधिः
(एकोद्दिष्ट, सोह्रश्राद्ध आदिमा)

अथ प्रायश्चित्तगोदानम् (गौदान विधि)
कर्ता पवित्रासने उपविश्य आचम्य गां ब्राह्मणं च संपूज्य गोपुच्छोदकेन स्वशिरसि अभिषिञ्चेत् । (पवित्र आसनमा बसेर श्राद्ध गर्ने कर्ताले आचमन गरी गाई र ब्राह्मणलाई पूजा गर्ने, कुशले भुइँमा तर्पण र शिरमा अभिषेक गर्ने एकोदिष्ट, पार्वण तथा एकपार्वण श्राद्धमा गौदानको संकल्प र तर्पणको प्रतिज्ञा संकल्प बाहेक सबै प्रक्रिया एउटै हुन्छ ।)

तत्रादौ गोपूजनम् – (बोहोतामा द्रव्य र पवित्र राखेर त्यहाँ गाईको पूजा गर्ने)

ॐ नमो गोभ्यः श्रीमतीभ्यः सौरभेयिभ्य एव च ।
नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमो नमः ।।
ॐ इरावती धेनुमती हि भूतᳯसूयवसिनी मनवे दशस्या ।
व्व्यस्कभ्ना रोदसी व्विष्णवे ते दाधर्त्थ पृथिवीमभितो मयूखैः स्वाहा ।।

इति मन्त्रद्वयेन गां त्रिः सम्पूज्य ब्राह्मणं त्रिः सम्पूजयेत् – (गाईको पूजा गरेर तलको मन्त्रले ब्राह्मणलाई टीका लगाउने)
ॐ आ कृष्णेन रजसा व्वर्तमानो निवेशयन्नमृतं मर्त्यञ्च ।
हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ।।
ॐ नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ।।

ततः कुशजलेन गामभ्युक्ष्य गोपुच्छं गृहीत्वा पूर्वं तर्पयित्वा पश्चात् स्वशिरसि अभिषिञ्चेदनेन मन्त्रेण – (कुश र जलले पहिला भुइँमा तर्पण गर्ने र पछि आफ्नो शिरमा अभिषेक गर्ने)
ॐ मनो मे तर्प्पयत व्वाचं मे तर्प्पयत प्राणम्मे तर्प्पयत चक्षुर्म्मे तर्प्पयत श्रोत्रम्मे तर्प्पयतात्मानं मे तर्प्पयत प्रजाम्मे तर्प्पयत पशून्मे तर्प्पयत गणान्मे तर्प्पयत गणा मे मा व्वितृषन् ।।

ततः कुशतिलजलान्यादाय सङ्कल्पं कुर्यात् (हातमा कुश, तिल र जल लिएर बोहोतालाई छुँदै तलको संकल्प पढ्ने)
हरिः ॐ तत्सत् ३, ॐ विष्णुः ३, अद्येह श्रीमद्भगवतो महापुराणपुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य सकलजगतः सृष्टिकारिणो ब्रह्मणो द्वितीये परार्धे श्रीश्वेतवाराहकल्पे प्रह्लादाधिपत्ये मनौ सप्तमे वैवस्वत मन्वन्तरे सत्य त्रेता द्वापरान्ते बौद्धावतारे अष्टाविंशतितमे कलियुगे तस्य प्रथमचरणे भूर्लोके जम्बूद्वीपे भारतवर्षे भरतखण्डे आर्यावर्ते गङ्गादेव्या उत्तरदिग्भागे हिमाचलस्य दक्षिणपार्श्वे नेपालदेशे पाशुपतक्षेत्रे पशुपतेः गुह्यकाल्याश्च (….) दिग्भागे (….) मण्डले (….) नगरे, ग्रामे वा इह पुण्यभूमौ षष्टिसंवत्सराणां मध्ये (….) नाम्नि संवत्सरे श्रीसूर्ये (….) अयने (….) ऋतौ (….) मासे (….) पक्षे (….) तिथौ (….) वासरे (….) राशिस्थिते श्रीसूर्ये (….) राशिस्थिते देवगुरौ (….) राशिस्थिते चन्द्रमसि अन्येषु शेषेषु ग्रहेषु यथायथं राशिस्थानस्थितेषु सत्सु एवं ग्रहगणविशेषेण विशिष्टान्वितायां शुभपुण्यतिथौ….
(एकोदिष्ट श्राद्धको गौदानको लागि विशेष वचन)
अद्येह (….) गोत्रस्य (….) प्रवरस्य (….) शर्माहं (वर्माहं वा गुप्तोहम्)  कायिक–वाचिक–मानसिक–सांसर्गिक–ज्ञाताज्ञात–सकलपापक्षयपूर्वकं श्रीपरमेश्वरप्रीत्यर्थम् …….गोत्रस्य (गोत्रायाः) अस्मत् पितुः (मातुः) ….. शर्मणो वसुस्वरूपस्य (…..नाम्नीदेव्यायाः वसुस्वरूपायाः) अद्यकर्तव्य सांवत्सरिक एकोद्दिष्ट क्षयाहश्राद्ध कर्तृत्वाधिकारसिद्धये पूर्वदिने भक्ष्याभक्ष्य स्पृश्यास्पृश्य चोष्याचोष्यादि सकलप्रत्यवाय परिहारपूर्वक कर्माधिकारार्थं देहशुद्ध्यर्थं भूमि शुद्ध्यर्थञ्च इमां सर्वप्रायश्चित्त प्राजापत्यानुकल्पीभूतां गां तत् प्रत्याम्नायीभूतं व्यवहारोपकल्पितं द्रव्यं लोष्टादिकं वा रुद्रदैवतां (विष्णुदैवतां वा) …. गोत्राय ….. शर्मणे ब्राह्मणाय प्रायश्चित्त गोदानत्वेन तुभ्यम् अहं संप्रददे । (कुश ब्राह्मणलाई दिने) ॐ स्वस्ति इति प्रतिवचनम् । (ब्राह्मणले ॐ स्वस्ति भनेर कुश लिने)

(पार्वण श्राद्धमा गौदानको लागि विशेष संकल्प वचन)
अद्येह (….) गोत्रस्य (….) प्रवरस्य (….) शर्माहं (वर्माहं वा गुप्तोहम्) कायिक–वाचिक–मानसिक–सांसर्गिक–ज्ञाताज्ञात–सकलपाप क्षयपूर्वकं श्रीमत् परमेश्वरप्रीत्यर्थम्, ….. सगोत्राणाम् अस्मत् पितृपितामहप्रपितामहानाम् (अमुक, अमुक, अमुक) शर्मणां सपत्नीकानां वसुरुद्रादित्य स्वरूपाणां तथा …… सगोत्राणाम् अस्मत् मातामह–प्रमातामह–वृद्धप्रमातामहानाम् (अमुक, अमुक, अमुक) शर्मणां सपत्नीकानां वसुरुद्रादित्य स्वरूपाणां अद्य कर्तव्य महालय अपरपक्षान्तर्गत–पार्वणश्राद्ध कर्तृत्वाधिकारसिद्धये अद्य दिनात् प्राक् कर्तव्य नियमाकरण–भक्ष्याभक्ष्य स्पृश्यास्पृश्य–चोष्याचोष्यादि–सकलप्रत्यवाय–परिहारार्थम् इमां सर्वप्रायाश्चित्त प्राजापत्यानुकल्पीभूतां गां रुद्रदैवतां (तत् प्रत्याम्नायीभूतं द्रव्यं विष्णु दैवतं) …. गोत्राय ……शर्मणे ब्राह्मणाय प्रायश्चित्त गोदानत्वेन तुभ्यम् अहं सम्प्रददे । (कुश ब्राह्मणलाई दिने) “ॐ स्वस्ति” इति प्रतिवचनम् ।। (ब्राह्मणले “ॐ स्वस्ति” भनेर कुश लिने)

(एकपार्वण श्राद्धको लागि गौदानको विशेष संकल्प वचन)
अद्येह (….) गोत्रस्य (….) प्रवरस्य (….) शर्माहं (वर्माहं वा गुप्तोहम्) कायिक–वाचिक–मानसिक–सांसर्गिक–ज्ञाताज्ञात–सकलपाप क्षयपूर्वकं श्रीमत् परमेश्वरप्रीत्यर्थम्, …… सगोत्राणाम् अस्मत् पितृपितामहप्रपितामहानाम् (अमुक, अमुक, अमुक) शर्मणां वसुरुद्रादित्य स्वरूपाणां अद्य कर्तव्य सांवत्सरिक एकपार्वणश्राद्ध कर्तृत्वाधिकारसिद्धये अद्य दिनात् प्राक् कर्तव्य नियमाकरण–भक्ष्याभक्ष्य स्पृश्यास्पृश्य–चोष्याचोष्यादि–सकलप्रत्यवाय–परिहारार्थम् इमां सर्वप्रायाश्चित्त प्राजापत्यानुकल्पीभूतां गां रुद्रदैवतां (तत् प्रत्याम्नायीभूतं द्रव्यं विष्णु दैवतं) …. गोत्राय ……शर्मणे ब्राह्मणाय प्रायश्चित्त गोदानत्वेन तुभ्यम् अहं सम्प्रददे । (कुश ब्राह्मणलाई दिने) “ॐ स्वस्ति” इति प्रतिवचनम् ।। (ब्राह्मणले “ॐ स्वस्ति” भनेर कुश लिने)

प्रार्थना (तलको मन्त्रले फूल लिएर हात जोडी फूल गाईलाई चढाउने)
कपिले सर्वदेवानां पूजनीयासि रोहिणी । तीर्थदेवमयी यस्मात्तस्माच्छान्तिं प्रयच्छ मे ।।
गावो मे अग्रतः सन्तु गावो मे सन्तु पृष्ठतः । गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम् ।।

ततो दानप्रतिष्ठा
गोदानदशांशद्रव्यम् एकस्मिन् पात्रे संस्थाप्य पूजयेत् (गौदानमा राखेको मूल्यको दश प्रतिशत द्रव्यलाई तल राखेर पूजा गर्ने)
ॐ स्वर्ण्ण घर्म्मः स्वाहा स्वर्ण्णार्कः स्वाहा स्वर्ण्ण शुक्रः स्वाहा स्वर्ण्ण ज्योतिः स्वाहा स्वर्ण्ण सूर्यः स्वाहा ।। “दानप्रतिष्ठाद्रव्याय नमः” इति मन्त्रेण सम्पूज्य कुशादिसहितं दानप्रतिष्ठाद्रव्यमादाय (दानप्रतिष्ठा द्रव्यलाई पूजा गरेर कुशपानीसँगै हातमा लिएर संकल्प गर्ने)
ॐ अद्य कृतैतत् सर्वप्रायश्चित्त निमित्तक गोदानकर्मणः (गोप्रत्याम्नायीभूत द्रव्यदानकर्मणो वा) प्रतिष्ठासाङ्गता सिद्ध्यर्थम् इमां दानप्रतिष्ठाद्रव्यं रौप्यखण्डं चन्द्रदैवतं (तत् प्रत्याम्नायीभूतं व्यवहारोपकल्पितं द्रव्यं विष्णुदैवतं) सुपूजिताय …. गोत्राय ….. शर्मणे ब्राह्मणाय दानप्रतिष्ठात्वेन तुभ्यम् अहं संप्रददे । (दानप्रतिष्ठा द्रव्य ब्राह्मणलाई दिने)

गौदानको बोहोतालाई जलले प्रदक्षिणा गर्ने–
ॐ यानि कानि च पापानि जन्मान्तर कृतानि च । तानि सर्वाणि नश्यन्तु प्रदक्षिण पदे पदे ।।
गौदानको पात्र ब्राह्मणलाई दिएर हात जोड्ने–
ॐ कोदात् कस्माऽअदात् कामोदात् कामायादात् ।। कामोदाता कामः प्रतिग्रहीता कामैतत्ते ।।
ब्राह्मणले अभिषेक गरिदिने–
ॐ द्यौः शान्तिरन्तरिक्क्ष ᳯ शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः ।। व्वनस्प्पतयः शान्तिर्व्विश्वेदेवाः शान्तिर्ब्ब्रह्म्म शान्तिः सर्व ᳯ शान्तिः शान्तिरेवशान्तिः सामाशान्तिरेधि ।। इति गौदानविधिः ।।

प्रतिज्ञासङ्कल्पः
कुशतिलजलान्यादाय (एकोदिष्ट श्राद्धको लागि हातमा कुश,तिल र जल लिएर प्रतिज्ञा संकल्प गर्ने)
हरि ॐ तत्सत् ३ ॐ विष्णुः ३ अद्येह पूर्वोच्चारितसंकल्प सिद्धिरस्तु ….गोत्रः ….प्रवरः ….. शर्माहं÷वर्माहं÷गुप्तोहं …..गोत्रस्य (गोत्रायाः) अस्मत् पितुः (मातुः) ….शर्मणो (…..नाम्नी देव्याः) वसुस्वरूपस्य (वसुस्वरूपायाः) एकोद्दिष्ट श्राद्धाङ्गत्वेन, श्रीमत् परमेश्वरप्रीतये देवर्षीणां मनुष्याणां दिव्यपितृणां स्वपितृणां च तर्पणम् अहं करिष्ये ।

कुशतिलजलान्यादाय सङ्कल्पं कुर्यात् (पार्वण श्राद्धको लागि गरिने प्रतिज्ञा संकल्प गर्ने)
हरि ॐ तत्सत् ३ ॐ विष्णुः ३ अद्येह पुर्वोच्चारित संकल्प सिद्धिरस्तु …. गोत्रः ….. प्रवरः ….. शर्माहं÷ वर्माहं÷ गुप्तोऽहं ….. सगोत्राणाम् अस्मत् पितृ–पितामह–प्रपितामहानाम् (अमुक,अमुक,अमुक) शर्मणां सपत्नीकानां वसुरुद्रादित्य स्वरूपाणां तथा च ….. सगोत्राणाम् अस्मत् मातामह–प्रमातामह–वृद्धप्रमातामहानाम् (अमुक,अमुक,अमुक) शर्मणां सपत्नीकानां वसुरुद्रादित्य स्वरूपाणाम् अद्यकर्तव्य महालय अपरपक्षान्तर्गत पार्वण श्राद्धाङ्गत्वेन श्रीमत्परमेश्वर प्रीतये देवर्षीणां मनुष्याणां दिव्यपितृणां स्वपितृणां च तर्पणम् अहं करिष्ये ।

कुशतिलजलान्यादाय सङ्कल्पं कुर्यात् (एकपार्वण श्राद्धको लागि गरिने प्रतिज्ञा संकल्प)
हरि ॐ तत्सत् ३ ॐ विष्णुः ३ अद्येह पुर्वोच्चारित संकल्प सिद्धिरस्तु …. गोत्रः ….. प्रवरः ….. शर्माहं÷वर्माहं÷गुप्तोऽहं ….. सगोत्राणाम् अस्मत् पितृ–पितामह–प्रपितामहानाम् (अमुक,अमुक,अमुक) शर्मणां सपत्नीकानां वसुरुद्रादित्य स्वरूपाणाम् अद्यकर्तव्य सांवत्सरिक एकपार्वण श्राद्धाङ्गत्वेन श्रीमत्परमेश्वर प्रीतये देवर्षीणां मनुष्याणां दिव्यपितृणां स्वपितृणां च तर्पणम् अहं करिष्ये ।।

देवर्षितर्पणम्
उपवीति प्राङ्मुखः कुशपाणिर्देवतीर्थवर्तिना यवकुशोदकेन विश्वान् देवानावाह्य तर्पयेत् । (सव्य भई पूर्व फर्किएर तर्पण गर्ने पात्रमा देवताहरुको आवाहन गरेर हातमा अघ्र्यपात्र राखि त्यसमा कुश,जौ तथा फूल, अक्षता राखेर तर्पण गर्ने)
ॐ विश्वेदेवासऽआगत शृणुतामऽइमᳯहवम् । एदं बर्हिर्निषीदत ।।
ॐ विश्वेदेवाः शृणुतेमᳯहवम्मे येअन्तरिक्षे यऽउपद्यविष्ठ । येऽअग्निजिह्वाऽउतवा यजत्राऽआसद्यास्मिन् बर्हिषि मादयध्वम् ।।
ॐ भूर्भुवः स्वः ब्रह्मादयो देवा इहागच्छन्तु इह तिष्ठन्तु गृह्णन्तु एतान् जलाञ्जलीन् ।
(माथिको मन्त्र तथा वचन पढेर फुल अक्षताले तर्पण दिने पात्रमा देवताहरुको आवाहन गर्ने र तलको मन्त्रले दाहिने हातको देवतीर्थ अर्थात् औँलाको टुप्पोबाट एक÷एक पटक तर्पण गर्ने)
ॐ ब्रह्मा तृप्यताम् । ॐ विष्णुस्तृप्यताम् । ॐ रुद्रस्तृप्यताम् । ॐ प्रजापतिस्तृप्यताम् । ॐ देवास्तृप्यन्ताम् । ॐ छन्दांसि तृप्यन्ताम् । ॐ वेदास्तृप्यन्ताम् । ॐ ऋषयस्तृप्यन्ताम् । ॐ पुराणाचार्यास्तृप्यन्ताम् । ॐ गन्धर्वास्तृप्यन्ताम् । ॐ इतराचार्यास्तृप्यन्ताम् । ॐ संवत्सरसावयवस्तृप्यताम् । ॐ देव्यस्तृप्यन्ताम् । ॐ अप्सरसस्तृप्यन्ताम् । ॐ देवानुगास्तृप्यन्ताम् । ॐ नागास्तृप्यन्ताम् । ॐ सागरास्तृप्यन्ताम् । ॐ पर्वतास्तृप्यन्ताम् । ॐ सरितस्तृप्यन्ताम् । ॐ मनुष्यास्तृप्यन्ताम् । ॐ यक्षास्तृप्यन्ताम् । ॐ रक्षांसि तृप्यन्ताम् । ॐ पिशाचास्तृप्यन्ताम् । ॐ सुपर्णास्तृप्यन्ताम् । ॐ भूतानि तृप्यन्ताम् । ॐ पशवस्तृप्यन्ताम् । ॐ वनस्पतयस्तृप्यन्ताम् । ॐ ओषधयस्तृप्यन्ताम् । ॐ भूतग्राम चतुर्विधस्तृप्यताम् । ॐ मरीचिस्तृप्यताम् । ॐ अत्रिस्तृप्यताम् । ॐ अङ्गिरास्तृप्यताम् । ॐ पुलस्त्यस्तृप्यताम् । ॐ पुलहस्तृप्यताम् । ॐ व्रmतुस्तृप्यताम् । ॐ प्रचेतास्तृप्यताम् । ॐ वसिष्ठस्तृप्यताम् । ॐ भृगुस्तृप्यताम् । ॐ नारदस्तृप्यताम् । ।। इति देवर्षितर्पणम् ।।

मनुष्यतर्पणम्
ततः कण्ठे सूत्रं कृत्वा निवीती उदङ्मुखः कायतीर्थवर्तिना सकुशोदकेनाञ्जलौ तिरश्च कुशान् कृत्वा मनुष्यांस्तर्पयेत् । (जनैलाई घाँटीमा माला लगाए झैँ लगाई उत्तर फर्केर तर्पण दिने पात्रमा मनुष्यहरुलाई आवाहन गरी हातमा अघ्र्य लिई अघ्र्यमा कुश तथा फूल अक्षता राखेर कान्छी औँलाको फेदतर्फ (कायतीर्थ) बाट मनुष्यहरुलाई २÷२ पटक तर्पण गर्ने)
ॐ भूर्भुवः स्वः सनकादयः सप्तमनुष्या इहागच्छन्तु इह तिष्ठन्तु गृह्णन्तु एतान् जलाञ्जलीन् ।
(यस वचनले पात्रमा फूल अक्षताले पूजा गरेर मनुष्यहरुलाई आवाहन गर्ने र तलको मन्त्रले तर्पण गर्ने)
ॐ सनकस्तृप्यताम् २ । ॐ सनन्दनस्तृप्यताम् २ ॐ सनातनस्तृप्यताम् २ । ॐ कपिलस्तृप्यताम् २ । ॐ आसुरिस्तृप्यताम् २ । ॐ वोढुस्तृप्यताम् २ । ॐ पञ्चशिखस्तृप्यताम् २ ।
।। इति मनुष्यतर्पणम् ।।

दिव्यपितृतर्पणम्
ततोऽपसव्येन प्राचीनावीती दक्षिणामुखः पातितवामजानुर्मोटितकुशतिलाञ्जलित्रयेण पितृतीर्थेन खड्गपात्रेण च दिव्यपितृनावाह्य तर्पयेत् । (अपसव्य भएर दक्षिणतर्फ फर्किएर बायाँ घुँडा मारेर खगौतोमा मोटक, कुश, तिल तथा फूल अक्षता राखेर चोरी औँला र बूढी औँलाको बीच पितृतीर्थबाट दिव्यपितृहरुलाई तर्पण गर्ने पात्रमा आवाहन गरेर ३÷३ पटक तर्पण गर्ने)
ॐ उशन्तस्त्वा निधीमह्युशन्तः समिधीमहि । उशन्नुशतऽआवह पितृन् हविषेऽअत्तवे ।।
ॐ आयन्तु नः पितरः सोम्यासोग्निष्वात्ताः पथिभिर्देवयानैः ।
अस्मिन् यज्ज्ञे स्वधया मदन्तोधिब्ब्रुवन्तु तेवन्त्वस्मान् ।।
ॐ कव्यवाडनलादयो दिव्यपितरः इहागच्छन्तु इह तिष्ठन्तु गृह्णन्तु एतान् जलाञ्जलीन् ।
(माथिको २ वटा मन्त्र तथा वचनले तर्पण गर्ने पात्रमा दिव्यपितृहरुको आवाहन गरेर तलको मन्त्रले ३÷३ पटक पितृतीर्थले तर्पण गर्ने)
ॐ कव्यवाडनलस्तृप्यताम् इदं तिलोदकं तस्मै स्वधा नमः ३ ।
ॐ सोमस्तृप्यताम् इदं तिलोदकं तस्मै स्वधा नमः ३ ।
ॐ यमस्तृप्यताम् इदं तिलोदकं तस्मै स्वधा नमः ३ ।
ॐ अर्यमा तृप्यताम् इदं तिलोदकं तस्मै स्वधा नमः ३ ।
ॐ अग्निष्वात्ताः तृप्यन्ताम् इदं तिलोदकं तेभ्यः स्वधा नमः ३ ।
ॐ सोमपाः पितरस्तृप्यन्ताम् इदं तिलोदकं तेभ्यः स्वधा नमः ३ ।
ॐ बर्हिषदः पितरस्तृप्यन्ताम् इदं तिलोदकं तेभ्यः स्वधा नमः ३ ।
ॐ यमाय नमः ३ । ॐ धर्मराजाय नमः ३ । ॐ मृत्यवे नमः ३ । ॐ अन्तकाय नमः ३ । ॐ वैवस्वताय नमः ३ । ॐ कालाय नमः ३ । ॐ सर्वभूतक्षयाय नमः ३ । ॐ औदुम्बराय नमः ३ । ॐ दध्नाय नमः ३ । ॐ नीलाय नमः ३ । ॐ परमेष्ठिने नमः ३ । ॐ वृकोदराय नमः ३ । ॐ चित्राय नमः ३ । ॐ चित्रगुप्ताय नमः ३ ।
।। इति दिव्यपितृतर्पणम् ।।

स्वपितृतर्पणम्
ॐ भूर्भुवः स्वः अस्मत् पितर इह आगच्छन्तु इह तिष्ठन्तु गृह्णन्तु एतान् जलाञ्जलीन्
इति पितृन् आवाह्य तर्पयेत् । ( यस वचनले आफ्ना पितृहरुलाई तर्पण दिने पात्रमा आवाहन गरी अर्घौतोमा चन्दन, अक्षता, तिल तथा मोटक राखेर पितृतीर्थबाट तलको मन्त्र र संकल्प पढ्दै तर्पण दिने)
ॐ उदीरतामवरऽउत्परासऽउन्मध्यमाः पितरः सोम्यासः ।
असुं य ईयुरवृकाऽऋतज्ञास्ते नोवन्तु पितरो हवेषु ।।
ॐ अद्येह …. गोत्रोऽस्मत् पिता …. शर्मा वसुस्वरूपस्तृप्यताम् इदं तिलोदकं तस्मै स्वधा ।।                          इति प्रथमाञ्जलिं पित्रे दद्यात् । (बुबाको गोत्र र नाम उच्चारण गरी पहिलो अञ्जुली तर्पण दिने)
ॐ अङ्गिरसो नः पितरोनवग्वाऽअथर्वाणो भृगवः सोम्यासः ।
तेषां वय ᳯ सुमतौ यज्ञियानामपिभद्रे सौमनसे स्याम ।।
ॐ अद्येह …. गोत्रोऽस्मत् पिता …. शर्मा वसुस्वरूपस्तृप्यताम् इदं तिलोदकं तस्मै स्वधा ।।                         इति द्वितीयाञ्जलिं पित्रे दद्यात् । (बुबाको गोत्र र नाम उच्चारण गरी दोस्रो अञ्जुली तर्पण दिने)
ॐ आयन्तु नः पितरः सोम्यासोग्निष्वात्ताः पथिभिर्द्देवयानैः ।
अस्मिन् यज्ज्ञे स्वधया मदन्तोधिब्ब्रुवन्तु तेवन्त्वस्मान् ।
ॐ अद्येह …. गोत्रोऽस्मत् पिता …. शर्मा वसुस्वरूपस्तृप्यताम् इदं तिलोदकं तस्मै स्वधा ।।                         इति तृतीयाञ्जलिं पित्रे दद्यात् । (बुबाको गोत्र र नाम उच्चारण गरी तेस्रो अञ्जुली तर्पण दिने)

हजुरबुबालाई
ॐ ऊर्जं वहन्तीरमृतं घृतम्पयः कीलालं परिस्रुतम् । स्वधास्थ तर्पयत मे पितृन् ।
ॐ अद्येह …. गोत्रोऽस्मत् पितामह …. शर्मा रुद्रस्वरूपस्तृप्यताम् इदं तिलोदकं तस्मै स्वधा ।                       इति पितामहाय प्रथमाञ्जलिं दद्यात् । (हजुरबुबाको गोत्र र नाम उच्चारण गरी पहिलो अञ्जुली तर्पण दिने)

ॐ पितृभ्यः स्वधायिभ्यः स्वधा नमः पितामहेभ्यः स्वधायिभ्यः स्वधा नमः प्रपितामहेभ्यः स्वधायिभ्यः स्वधा नमः ।। अक्षन्पितरोमीमदन्त पितरोतीतृपन्त पितरः पितरः शुन्धध्वम् ।।
ॐ अद्येह …. गोत्रोऽस्मत् पितामह …. शर्मा रुद्रस्वरूपस्तृप्यताम् इदं तिलोदकं तस्मै स्वधा ।                       अनेन मन्त्रेण पितामहाय पूर्ववद् द्वितीयाञ्जलिं दद्यात् । (हजुरबुबाको गोत्र र नाम उच्चारण गरी दोस्रो अञ्जुली तर्पण दिने)

ॐ ये चेह पितरो ये च नेह याँश्च विद्म याँ २ऽउ च न प्रविद्म ।
त्वं वेत्थ यति ते जातवेदः स्वधाभिर्यज्ञ ᳯ सुकृतञ्जुषस्व ।
ॐ अद्येह …. गोत्रोऽस्मत् पितामह …. शर्मा रुद्रस्वरूपस्तृप्यताम् इदं तिलोदकं तस्मै स्वधा ।
अनेन मन्त्रेण पितामहाय पूर्ववत्तृतीयाञ्जलिं दद्यात् । (हजुरबुबाको गोत्र र नाम उच्चारण गरी तेस्रो अञ्जुली तर्पण दिने)

बुढाहजुरबुबालाई
ॐ मधु वाताऽऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः ।।
ॐ अद्येह …. गोत्रोऽस्मत् प्रपितामह …… शर्मा आदित्य स्वरूपस्तृप्यताम् इदं तिलोदकं तस्मै स्वधा ।
इति प्रपितामहाय प्रथमाञ्जलिं दद्यात् । (वृद्धहजुरबुबाको गोत्र र नाम उच्चारण गरी पहिलो अञ्जुली तर्पण दिने)
ॐ मधु नक्तमुतोषसो मधुमत्पार्थिव ᳯ रजः । मधु द्यौरस्तु नः पिता ।।
ॐ अद्येह …. गोत्रोऽस्मत् प्रपितामह …… शर्मा आदित्य स्वरूपस्तृप्यताम् इदं तिलोदकं तस्मै स्वधा ।
अनेन मन्त्रेण प्रपितामहाय द्वितीयाञ्जलिं दद्यात् । (वृद्धहजुरबुबाको गोत्र र नाम उच्चारण गरी दोस्रो अञ्जुली तर्पण दिने)
ॐ मधुमान्नो वनस्पतिर्मधुमाँऽअस्तु सूर्यः । माध्वीर्गावो भवन्तु नः ।।
ॐ अद्येह …. गोत्रोऽस्मत् प्रपितामह …… शर्मा आदित्य स्वरूपस्तृप्यताम् इदं तिलोदकं तस्मै स्वधा ।
अनेन मन्त्रेण प्रपितामहाय पूर्ववत्तृतीयाञ्जलिं दद्यात् । (वृद्धहजुरबुबाको गोत्र र नाम उच्चारण गरी तेस्रो अञ्जुली तर्पण दिने)

(घरतर्फको आमाको ३ पुस्तालाई तर्पण दिने)

ॐ आमा वाजस्य प्रसवो जगम्यादेमे द्यावापृथिवी विश्वरूपे ।
आ मा गन्तां पितरामातरा चामा सोमोऽअमृतत्वेन गम्यात् ।।
इति मन्त्रं पठित्वा (यो मन्त्र पढेर तलको संकल्प गरी आमाहरुलाई ३÷३ पटक तर्पण दिने),
ॐ अद्येह ….. गोत्रास्मत् माता ….. देवी वसुस्वरूपा तृप्यताम् इदं तिलोदकं तस्यै स्वधा ।
इति अञ्जलित्रयं दद्यात् (आमाको गोत्र र नाम समेत उच्चारण गरी माथिको संकल्पले ३ पटक तर्पण दिने)
ॐ अद्येह …. गोत्रास्मत् पितामही …. देवी रुद्रस्वरूपा तृप्यताम् इदं तिलोदकं तस्यै स्वधा । इति त्रिः ।
(हजुरआमाको गोत्र र नाम समेत उच्चारण गरी माथिको संकल्पले ३ पटक तर्पण दिने)
ॐ अद्येह …. गोत्रास्मत् प्रपितामही …. देवी आदित्यस्वरूपा तृप्यताम् इदं तिलोदकं तस्यै स्वधा । इति त्रिः ।
(वृद्धहजुरआमाको गोत्र र नाम समेत उच्चारण गरी माथिको संकल्पले ३ पटक तर्पण दिने)

सौतेनी आमालाई
ॐ अद्येह ….. गोत्रास्मत् सपत्नजननी ….. देवी वसुस्वरूपा तृप्यताम् इदं तिलोदकं तस्यै स्वधा । (२ पटक तर्पण दिने)

अब मावलीतर्फका ३ पुस्तालाई तर्पण दिने
ॐ नमो वः पितरो रसाय नमो वः पितरः शोषाय नमो वः पितरो जीवाय नमो वः पितरः स्वधायै नमो वः पितरो घोराय नमो वः पितरो मन्यवे नमो वः पितरः पितरो नमो वो गृहान्नः पितरो दत्त सतो वः पितरो देष्मैतद्वः पितरो वासः ।
ॐ अद्येह … गोत्रोऽस्मत् मातामह …. शर्मा वसुस्वरूपस्तृप्यताम् इदं तिलोदकं तस्मै स्वधा ।
इति प्रथमाञ्जलिं मातामहाय दद्यात् । (मावलीको हजुरबुबाको गोत्र र नाम समेत उच्चारण गरी माथिको संकल्पले ३ पटक तर्पण दिने)
पुनः ‘ॐ नमो वः’ इति मन्त्रं पठित्वा— (माथिको मन्त्र तथा तलको संकल्प पढेर तर्पण गर्ने)
ॐ अद्येह …. गोत्रोऽस्मत् प्रमातामह ….. शर्मा रुद्र स्वरूपस्तृप्यताम् इदं तिलोदकं तस्मै स्वधा ।
इति प्रमातामहाय प्रथमद्वितीयतृतीयाञ्जलीन् दद्यात् । (मावलीको वृद्धहजुरबुबाको गोत्र र नाम समेत उच्चारण गरी माथिको संकल्पले ३ पटक तर्पण दिने)
पुनः ‘ॐ नमो वः’ इति मन्त्रं पठित्वा— (माथिको मन्त्र तथा तलको संकल्प पढेर तर्पण गर्ने)
ॐ अद्येह …. गोत्रोऽस्मद् वृद्धप्रमातामह ….. शर्मा आदित्य स्वरूपस्तृप्यताम् इदं तिलोदकं तस्मै स्वधा ।
इति वृद्धप्रमातामहाय प्रथमद्वितीयतृतीयाञ्जलीन् दद्यात् । (मावलीको अतिवृद्ध हजुरबुबाको गोत्र र नाम समेत उच्चारण गरी माथिको संकल्पले ३ पटक तर्पण दिने)
अब मावली तर्फका हजुरआमाहरुलाई तर्पण दिने
ॐ अद्येह …. गोत्रास्मत् मातामही ….. देवी वसुस्वरूपा तृप्यताम् इदं तिलोदकं तस्यै स्वधा । इति त्रिः ।
(मावलीको हजुरआमाको गोत्र र नाम समेत उच्चारण गरी माथिको संकल्पले ३ पटक तर्पण दिने)
ॐ अद्येह ….. गोत्रास्मत् प्रमातामही ….. देवी रुद्रस्वरूपा तृप्यताम् इदं तिलोदकं तस्यै स्वधा । इति त्रिः ।
(मावलीको वृद्धहजुरआमाको गोत्र र नाम समेत उच्चारण गरी माथिको संकल्पले ३ पटक तर्पण दिने)
ॐ अद्येह …. गोत्रास्मद् वृद्धप्रमातामही …. देवी आदित्यस्वरूपा तृप्यताम् इदं तिलोदकं तस्यै स्वधा । इति त्रिः ।
(मावलीको अतिवृद्धहजुरआमाको गोत्र र नाम समेत उच्चारण गरी माथिको संकल्पले ३ पटक तर्पण दिने)
समस्त पितृणां तर्पणम् ः
ततः श्लोकानुसारेण ज्येष्ठकनिष्ठादीन्सपत्नीकांश्च तर्पयेत्
(तलको श्लोकअनुसार जेठोदेखि कान्छोसम्म सबैलाई तर्पण दिने)
ताताम्बात्रितयं सपत्नजननी मातामहादित्रयं । सस्त्रि स्त्री तनयादि तातजननीस्वभ्रातरः सस्त्रियः ।।
ताताम्बात्मभगिन्यपत्यधवयुग् जायापिता सद्गुरुः । शिष्याप्ताः पितरो महालयविधौ तीर्थे तथा तर्पणे ।

घरतर्फ तथा मामाघर तर्फको सपत्नीक ३÷३ पुस्तालाई तर्पण माथि दिइसकेपछि अब बाँकी अन्य पितृहरुलाई १÷१ पटक तर्पण दिनुपर्छ । श्रीमती सहितलाई दिनुपर्ने भए सपत्नीक भनेर दिनुपर्छ ।
श्रीमतीलाई ः ॐ अद्येह ….. सगोत्रा अस्मत् पत्नी ….. देवी वसुस्वरुपा तृप्यताम् इदं तिलोदकं तस्यै स्वधा ।
छोरा÷बुहारीः ॐ अद्येह …. सगोत्रोऽस्मत् पुत्र……शर्मा (सपत्नीकः सापत्यश्च) वसुस्वरुपस्तृप्यताम् इदं तिलोदकं तस्मै स्वधा ।
छोरी÷ज्वाइँ ः ॐ अद्येह …. सगोत्रा अस्मत् पुत्री……देवी सधवा यथायोग्य सापत्या च वसुस्वरुपा तृप्यताम् इदं तिलोदकं तस्यै स्वधा ।
ठूलोबा÷काका सपत्नीक ः ॐ अद्येह …. सगोत्रोऽस्मत् पितृव्य……शर्मा (सपत्नीकः सापत्यश्च) वसुस्वरुपस्तृप्यताम् इदं तिलोदकं तस्मै स्वधा ।
मामा÷माइजूः ॐ अद्येह …. सगोत्रोऽस्मत् मातुलः……शर्मा (सपत्नीकः सापत्यश्च) वसुस्वरुपस्तृप्यताम् इदं तिलोदकं तस्मै स्वधा ।
दाजुभाई सपत्नीकः ॐ अद्येह …. सगोत्रोऽस्मत् भ्राता……शर्मा (सपत्नीकः सापत्यश्च) वसुस्वरुपस्तृप्यताम् इदं तिलोदकं तस्मै स्वधा ।
फुपू÷फुपाजू ः ॐ अद्येह …. सगोत्रा अस्मत् पितृश्वसा…..देवी सधवा यथायोग्य सापत्या च वसुस्वरुपा तृप्यताम् इदं तिलोदकं तस्यै स्वधा ।
ठूलीमा÷सानिमाः ॐ अद्येह …. सगोत्रा अस्मत् मातृश्वसा…..देवी सधवा यथायोग्य सापत्या च वसुस्वरुपा तृप्यताम् इदं तिलोदकं तस्यै स्वधा ।
दिदी÷बहिनीः ॐ अद्येह …. सगोत्रा अस्मत् भगिनी…..देवी सधवा यथायोग्य सापत्या च वसुस्वरुपा तृप्यताम् इदं तिलोदकं तस्यै स्वधा ।
ससुराः ॐ अद्येह …. सगोत्रोऽस्मत् श्वसुर…..शर्मा यथायोग्य सापत्यश्च वसुस्वरुपस्तृप्यताम् इदं तिलोदकं तस्मै स्वधा ।
सासूः ॐ अद्येह …. सगोत्रा अस्मत् श्वश्रू…..देवी यथायोग्य सापत्या च वसुस्वरुपा तृप्यताम् इदं तिलोदकं तस्यै स्वधा ।
गायत्री गुरुः ॐ अद्येह …. सगोत्रोऽस्मत् गायत्री गुरुः…..शर्मा (सपत्नीकः) वसुस्वरुपस्तृप्यताम् इदं तिलोदकं तस्मै स्वधा ।
दीक्षा गुरुः ॐ अद्येह …. सगोत्रोऽस्मत् दीक्षा गुरुः…..शर्मा (सपत्नीकः) वसुस्वरुपस्तृप्यताम् इदं तिलोदकं तस्मै स्वधा ।

(यसैगरी अन्य कोही विशेष गुरुहरु छन् भने पनि तर्पण दिने)
शिष्यः ॐ अद्येह …. सगोत्रोऽस्मत् शिष्यः…..शर्मा (सपत्नीकः) वसुस्वरुपस्तृप्यताम् इदं तिलोदकं तस्मै स्वधा ।
राजाः ॐ अद्येह …. सगोत्रोऽस्मत् भूपतिः वीरेन्द्र वीर विक्रम शाह वर्मा सपत्नीको यथायोग्य सापत्यश्च वसुस्वरुपस्तृप्यताम् इदं तिलोदकं तस्मै स्वधा ।
(अन्य कोही विशेष मान्यजन वा तर्पण दिनुपर्ने भए पनि माथि उल्लेखित वचन अनुसार नै दिनुपर्छ । यसपछि तलको श्लोक पढ्दै तर्पण गर्ने)

ॐ आब्रह्म स्तम्ब पर्यन्तं देवर्षि पितृमानवाः । तृप्यन्तु पितरः सर्वे मातृमातामहादयः ।।
पितृवंशे मृता ये च मातृवंशे तथैव च । गुरु श्वशुर बन्धूनां ये चान्ये बान्धवा मृताः ।।
ते तृप्तिमखिला यान्तु ये चास्मत् तोयकाङ्क्षिणः ।।
ये बान्धवाबान्धवा वा येऽन्यजन्मनि बान्धवाः ।।
ते सर्वे तृप्तिमायान्तु मद्दत्तेनाम्बुनाखिलाः । देवासुरास्तथा यक्षा नागा गन्धर्वराक्षसाः ।।
पिशाचा गुह्यकाः सिद्धाः कूष्माण्डास्तरवः खगाः । जलेचरा भूमिचरा वाय्वाहाराश्च जन्तवः ।।
ते तृप्तिमखिला यान्तु मद्दत्तेनाम्बुनाखिलाः । नरकेषु समस्तेषु यातनासु च ये स्थिताः ।।
तेषाम् आप्यायनायैतद् दीयते सलिलं मया । अतीत कुलकोटीनां सप्तद्वीप निवासिनाम् ।।
आब्रह्म भुवनाँल्लोका–निदमस्तु तिलोदकम् । यत्र क्वचनसंस्थानां क्षुत्तृष्णोपहतात्मनाम् ।।
इदमक्षय्यमेवास्तु मया दत्तं तिलोदकम् ।
ॐ सर्वेभ्यः पितृभ्यः स्वधा नमः । ॐ तृप्यध्वम् । ॐ तृप्यध्वम् । ॐ तृप्यध्वम् ।
(तर्पण सकिएपछि तर्पण गर्दा हातमा लिएको पात्र धोएर राख्ने)

वस्त्रनिष्पीडनम्
ॐ ये के चास्मत् कुले जाता अपुत्रा गोत्रिणो मृताः ।
ते पिबन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् ।।
(माथिको मन्त्रले जलले जनै वा वस्त्र भिजाएर देब्रेतर्फको भुइँमा निचोर्ने)
ततः सव्यं कृत्वाऽऽचम्य पूर्वाभिमुखो भूत्वा जले षट्कोणं विलिख्य ब्रह्मादीन्पूजयेत् । (सव्य भएर आचमन गर्ने र पूर्व फर्केर तर्पण दिएको पात्रको जलमा षट्कोण लेखेर ब्रह्मादि देवताहरुको पूजा गर्ने)

ब्रह्मादिदेवानां पूजनम्
ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेनऽआवः ।
सबुध्न्याऽउपमाऽअस्य विष्ठाः सतश्च योनिमसतश्च विवः ।।
ॐ ब्रह्मणे नमः ।
ॐ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पा ᳯ सुरे स्वाहा ।।
ॐ विष्णवे नमः ।
ॐ नमस्ते रुद्रमन्यवऽउतोतऽइषवे नमः । बाहुभ्यामुत ते नमः ।
ॐ रुद्राय नमः ।
ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो याे नः प्रचोदयात् ।।
ॐ सवित्रे नमः ।
ॐ मित्रस्य चर्षणी धृतो वो देवस्य सानसि ।  द्युम्नं चित्रश्रवस्तमम् ।।
ॐ मित्राय नमः ।
ॐ वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भसर्जनीस्थो वरुणस्य ऋतसदन्यसि वरुणस्यऽऋतसदनमसि वरुणस्यऽऋतसदनमासीद ।।
ॐ वरुणाय नमः ।

सूर्यार्घ्यदानम्
ॐ एहि सूर्य सहस्रांशो तेजोराशे जगत्पते । अनुकम्पय मां भक्त्या गृहाणार्घं दिवाकर ।।
अनेन मन्त्रेण सूर्यायाघ्र्यं दद्यात् । (माथिको मन्त्रले आसनबाट उठेर सूर्यलाई अर्घ दिने र तलको मन्त्रले दुवै हात उठाएर सूर्योपस्थान गर्ने)
ॐ अदृश्रमस्य केतवो विरश्मयो जनाँ २ऽअनु । भ्राजन्तोऽअग्नयो यथा । उपयामगृहीतोसि सूर्याय त्वा भ्राजायैष ते योनिः सूर्याय त्वा भ्राजाय । सूर्य भ्राजिष्ठ भ्राजिष्ठस्त्वं देवेष्वसि भ्राजिष्ठोहं मनुष्येषु भूयासम् ।।
ॐ ह ᳯ सः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषद तिथिर्दुरोणसत् ।
नृषद्वर सदृत सद्व्योमसदब्जा गोजाऽऋतजाऽअद्रिजाऽऋतं बृहत् ।।
इति मन्त्राभ्यां सूर्यमुपस्थाय प्रदक्षिणीकृत्य दिग्भ्योदिग्देवेभ्यश्च प्रणमेत् । (यी दुई मन्त्रले सूर्योपस्थान गरी तलको मन्त्र पढ्दै हात जोडेर दशै दिशालाई नमस्कार गर्दै दाहिने घुम्ने)

दिशां दिग्देवानाञ्च प्रणमनम्
ॐ प्राच्यै दिशे नमः, ॐ इन्द्राय नमः । ॐ आग्नेयै दिशे नमः, ॐ अग्नये नमः । ॐ दक्षिणायै दिशे नमः, ॐ यमाय नमः । ॐ नैऋत्यै दिशे नमः, ॐ निर्ऋतये नमः । ॐ प्रतीच्यै दिशे नमः, ॐ वरुणाय नमः । ॐ वायव्यै दिशे नमः, ॐ वायवे नमः । ॐ उदिच्यै दिशे नमः । ॐ कुवेराय नमः । ॐ ऐशान्यै दिशे नमः, ॐ ईशानाय नमः । ॐ ऊध्र्वायै दिशे नमः, ॐ ब्रह्मणे नमः । ॐ अधोदिशे नमः, ॐ अनन्ताय नमः ।
तत उपविश्य नमेत् (आसनमा बसेर नमस्कार गर्ने)
ॐ ब्रह्मणे नमः । ॐ अग्नये नमः । ॐ पृथिव्यै नमः । ॐ ओषधीभ्यो नमः । ॐ वाचे नमः । ॐ वाचस्पतये नमः । ॐ विष्णवे नमः । ॐ महद्भ्यो नमः । ॐ अद्भ्यो नमः । ॐ अपां पतये नमः । ॐ वरुणाय नमः ।

मुखाभिमर्शनम्
ॐ संवर्चसा पयसा सन्तनूभिरगन्महि मनसा स ᳯ शिवेन ।
त्वष्टा सुदत्रो विदधातु रायोनुमार्ष्टु तन्वो यद्विलिष्टम् ।।
इति मन्त्रेण मुखमभिमृश्य । (माथिको मन्त्रले बूढी र साहिँले औँलाले तर्पण गरेको जल ओठमा लगाएर हात धुने)

चक्षुः स्पर्शः
ॐ तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् । पश्येम शरदः शतं जीवेम शरदः शत ᳯ शृणुयाम शरदः शतं प्रब्रवाम शरदः शतमदीनाः स्याम शरदः शतं भूयश्च शरदः शतात् ।।
इति मन्त्रेणानामिकाङ्गुष्ठाभ्यां जलं स्पृष्ट्वा चक्षुः स्पर्शः कार्यः । (माथिको मन्त्रले बूढी र साहिँले औँलाले तर्पण गरेको जल आँखामा लगाएर हात धुने)

पितृविसर्जनम्
ॐ देवागातुविदो गातुं वित्वा गातुमित । मनसस्पतऽइमन्देव यज्ञ ᳯ स्वाहा वाते धाः ।।
इति मन्त्रेण पितृन् विसर्जयेत् । (यस मन्त्रले तर्पण गरेको जलमा फूल अक्षताले पितृ विसर्जन गर्ने)
।। इति तर्पणविधिः ।।

कमेन्ट छाेड्नुहाेस्

Please enter your comment!
Please enter your name here