गणेशपूजनम्
कुशपानी लिएर संकल्प गर्नेः
अद्येह अहं मम…कर्म निर्विघ्नपरिसमाप्त्यर्थं यथा सम्पादितोपचारैर्गणपति पूजनम् अहं
करिष्ये ।
पीठदेवता पूजन – फूल र अक्षता चढाउनेः
ॐ तीव्रायै नमः, ॐ ज्वालिन्यै नमः, नन्दायै नमः, ॐ भोगदायै नमः,
ॐ कामरुपिण्यै नमः, ॐ सत्यायै नमः, ॐ उग्रायै नमः, ॐ तेजोवत्यै नमः,
ॐ मध्ये विघ्ननाशिन्यै नमः, ॐ सर्वशक्तिकमलासनाय नमः ।
फूल, दुबो, अक्षता लिई गणेशलाई आवाहन गर्नेः
ॐ गजाननं भूतगणादिसेवितं कपित्थजम्बू फलचारु भक्षणम् ।
उमासुतं शोक विनाशकारकं नमामि विघ्नेश्वरपादपङ्कजम् ।।
ततो गणेशस्य प्राणप्रतिष्ठां कुर्यात् (गणेशको प्राणप्रतिष्ठा गर्ने)
ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्ॺज्ञमिमं तनो त्वरिष्टं ॺज्ञᳯ समिमं दधातु ।
विश्वे देवासऽइह मादयन्तामो३म्प्रतिष्ठ ।।
“ॐ भूर्भुवः स्वः सिद्धिबुद्धिसहित साङ्ग सायुध सवाहन सपरिवार श्रीमन् महागणाधिपते ! इहागच्छ इह तिष्ठ मम पूजां गृहाण यावत्पूजां करोमि तावत्वं सुस्थिरो भव । सुवरदो भव ।”
गणानान्त्वेति गणेशं पूजयेत् – (गणेशको पूजा गर्ने मन्त्र)
ॐ गणानान्त्वा गणपतिᳯहवामहे प्रियाणान्त्वा प्रियपतिᳯहवामहे निधीनान्त्वा
निधिपतिᳯहवामहे व्वसो मम ।। आहमजानि गर्ब्भधमा त्वमजासि गर्ब्भधम् ।।
आसनं समर्पयामि गणपतये नमः, पाद्यं समर्पयामि गणपतये नमः, (यसरी नै अन्य सामाग्री पनि चढाउने)
अर्घ्यम्, आचमनीयम्, पञ्चामृतम्, शुद्धोदकस्नानम्, वस्त्रम्, यज्ञोपवीतम्, चन्दनम्, अक्षतान्, यवतिलान्, पुष्पाणि, दूर्वाङ्कुराणि, धूपम्, दीपम्, नैवेद्यम्, मोदकम् (लड्डु), फलम्, ताम्बूलम् (पान), दक्षिणाम्, प्रदक्षिणाञ्च समर्पयामि ।
दशमोदक दान
दक्षिणासहित दश वटा लड्डु लिएर संकल्प गर्ने
सङ्कल्प – अद्येह…अहं….कर्म निमित्तकं गणेश प्रीतये इमान्दशमोदकान् दक्षिणा सहितान् ब्राह्मणाय दास्ये ।
प्रार्थनाः विनायक नमस्तुभ्यं सततं मोदकप्रिया ।
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ।।
दुबो र अक्षताले गणेशको पूजन गर्नेः
१) ॐ गणाधिप नमस्तेऽस्तु,
२) ॐ उमापुत्र नमस्तेऽस्तु,
३) ॐ अघनाशन नमस्तेऽस्तु,
४) ॐ विनायक नमस्तेऽस्तु,
५) ॐ ईशपुत्र नमस्तेऽस्तु,
६) ॐ सर्वसिद्धिप्रदायक नमस्तेऽस्तु,
७) ॐ एकदन्त नमस्तेऽस्तु,
८) ॐ इभवक्त्र नमस्तेऽस्तु,
९) ॐ मूषकवाहन नमस्तेऽस्तु,
१०) ॐ कुमारगुरो तुभ्यं नमोऽस्तु,
११) ॐ चतुर्थीश नमोऽस्तुते ।
ॐ काण्डात् काण्डात्प्ररोहन्ती परुषः परुषस्परि । एवानो दूर्वे प्रतनु सहस्रेण शतेन च ।।
(गणेशलाई बत्ती र कपुरले आरती गरी पुष्पाञ्जली गर्ने)
पुष्पाञ्जली– (फूल, दुबो र फल लिएर हात जोड्ने)
ॐ विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय ।
नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते ।।
ॐ अविरलमदजलनिवहं भ्रमरकुलानेकसेवितकपोलम् । अभिमतफलदातारं कामेशं गणपतिं वन्दे ।।
वरदस्त्वं वरं देहि वाञ्छितं वाञ्छितार्थद । अनेन फलदानेन सफलोऽस्तु सदा मम ।।
वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ । अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ।।
।। इति गणेशपूजनम् ।।