सत्यनारायण पूजा – (लक्ष्मीनारायण पूजा)

सत्यनारायण पूजा विधि
प्रारम्भिक पूजन (कर्मपात्र निर्माण, गोदान, स्वस्तिवाचन, अर्घ्य, दीप, कलश, गणेश, रक्षाबन्धन, वरण लगायतका कर्म) सकेपछि विशेष देवताको पूजन प्रारम्भ गरिन्छ । विशेष पूजन तल दिइएको छ । सत्यनारायण पूजामा शङ्खार्घ पूजा पनि गर्नुपर्छ । यसको विधि अर्घपूजा को नै हो । यहाँ शङ्खार्घ नारायणलाई मात्रै चढाइन्छ ।
संकल्प
हरिः ॐ तत्सत् ३ ॐ विष्णुः ३ पूर्वसङ्कल्पमुच्चार्य………गोत्र……….अहं मम पुत्रपौत्राद्यनेकविध धनधान्यादि नानासुख भोगानन्तरं सकलदुरितक्षय सर्वारिष्ट शान्ति पूर्वकं शास्त्रोक्त फलप्राप्त्यर्थं श्रीरमासहित सत्यनारायणप्रीत्यर्थं सत्यपुरवासकामनया यथा मिलितोपचारैः दीपकलशगणेश कलशे गणपत्यादिवनस्पत्यन्त देवतापूजनपूर्वकं साङ्गसपरिवार रमासहितश्रीसत्यनारायणपूजनं कथाश्रवणञ्च अहं करिष्ये ।
ततः अष्टदलोपरि धान्यं संस्थाप्य धान्योपरि कलशपूजाविधिना कलशं स्थापयेत् ।
(अष्टदलमाथि धान र धानमाथि कलशको पूजा पूर्वोक्त कलश पूजा विधिअनुसार गर्नु ।)
कलशोपरि ताम्रस्थाल्यां पीठदेवता पूजनविधि –
(कलशमाथि तामाको थाली राखेर पीठदेवताको चन्दन आदिले पूजन गर्ने ।)
पीठपूजा
पूर्वे ॐ विमलायै नमः, भो विमले इहागच्छ इह तिष्ठ मम पूजां गृहाण यावत्पूजां करोमि तावत्वं सुस्थिरो, सुप्रसन्नो, सुवरदो भव ।
आग्नेये ॐ ज्ञानरूपायै नमः भो ! ज्ञानरुपे इहागच्छ इह तिष्ठ………..
दक्षिणे ॐ क्रियायै नमः भो ! क्रिये इहागच्छ इह तिष्ठ………..
नैर्ऋत्ये ॐ योगायै नमः भो ! योगे इहागच्छ इह तिष्ठ………..
पश्चिमे ॐ प्रभायै नमः भो ! प्रभे इहागच्छ इह तिष्ठ………..
वायव्ये ॐ सत्यायै नमः भो ! सत्ये इहागच्छ इह तिष्ठ………..
उत्तरे ॐ अनुग्रहायै नमः भो ! अनुग्रहे इहागच्छ इह तिष्ठ………..
ईशाने ॐ ईशान्यै नमः भो ! ईशानीं इहागच्छ इह तिष्ठ………..
मध्ये ॐ नमो भगवते विष्णवे सर्वभूतात्मने वासुदेवाय सर्वात्मसंयोगाय योगपद्मपीठात्मने नमः ।
पुनः
पूर्वे ॐ लक्ष्म्यै नमः । दक्षिणे ॐ सरस्वत्यै नमः । पश्चिमे ॐ आदिपुरुषाय नमः ।
उत्तरे ॐ अनादि पुरुषाय नमः । आग्नये ॐ गणपतये नमः । नैर्ऋत्ये ॐ सूर्याय नमः ।
वायव्ये ॐ अम्बिकायै नमः । ईशाने ॐ शिवाय नमः । वायव्ये ॐ श्रीरामाय नमः, ॐ श्रीलक्ष्मणाय नमः ।
दश दिक्पालपूजा
(थालीको वरिपरि दशदिक्पालको क्रमैले पूजन गर्ने)
पूर्वे ॐ इन्द्राय नमः, भो ! इन्द्र इहागच्छ इह तिष्ठ मम पूजां गृहाण यावत्पूजां करोमि तावत्वं सुस्थिरो, सुप्रसन्नो, सुवरदो भव ।
आग्नेयदले ॐ अग्नये नमः, भो अग्नी ! इहागच्छ इह तिष्ठ………………..
दक्षिणदले ॐ यमाय नमः, भो यम ! इहागच्छ इह तिष्ठ………………..
नैर्ऋत्यदले ॐ निर्ऋतये नमः, भो निऋति ! इहागच्छ इह तिष्ठ………………..
पश्चिमदले ॐ वरुणाय नमः, भो वरुण ! इहागच्छ इह तिष्ठ………………..
वायव्यदले ॐ वायवे नमः, भो वायो ! इहागच्छ इह तिष्ठ………………..
उत्तरदले ॐ कुबेराय नमः, भो कुबेर ! इहागच्छ इह तिष्ठ………………..
ईशानदले ॐ ईशानाय नमः, भो ईशान ! इहागच्छ इह तिष्ठ………………..
ईशानपूर्वयोर्मध्ये ॐ ब्रह्मणे नमः, भो ब्रह्मन् ! इहागच्छ इह तिष्ठ………………..
निऋतिपश्चिमयोर्मध्ये ॐ अनन्ताय नमः, भो अनन्त ! इहागच्छ इह तिष्ठ……………….. इति
द्वारपालपूजा – (थालीको वरिपरि क्रमैले दश दिक्पालको पूजन गर्ने)
पूर्वे ॐ नन्दाय नमः, भो नन्द ! इहागच्छ इह तिष्ठ………………..
आग्नेये ॐ सुनन्दाय नमः, भो सुनन्द ! इहागच्छ इह तिष्ठ………………..
दक्षिणे ॐ बलाय नमः, भो बल ! इहागच्छ इह तिष्ठ………………..
नैर्ऋत्ये ॐ प्रबलाय नमः, भो प्रबल ! इहागच्छ इह तिष्ठ………………..
पश्चिमे ॐ जयाय नमः, भो जय ! इहागच्छ इह तिष्ठ………………..
वायव्ये ॐ विजयाय नमः, भो विजय ! इहागच्छ इह तिष्ठ………………..
उत्तरे ॐ सुशीलाय नमः, भो सुशील ! इहागच्छ इह तिष्ठ………………..
ईशाने ॐ पुण्यशीलाय नमः, भो पुण्यशील ! इहागच्छ इह तिष्ठ………………..
(माथिको पूजापछि धूपबत्ती, नैवद्य, दक्षिणा आदि अर्पण गरेर सत्यनारायण भगवानको विशेष पूजा गर्ने ।)
विशेषपूजा
ततः स्थालीमध्ये सिंहासने सुर्वणप्रतिमां संस्थाप्य रमासहितस्य श्रीसत्यनारायणस्य पूजां कुर्यात् –
(सुनको प्रतिमालाई प्राणप्रतिष्ठा गरी थालीको बिचमा राखेर पूजा गर्ने ।)
प्राणप्रतिष्ठा –
(सुनको प्रतिमालाई आगोमा तताएर पञ्चामृतले स्नान गरी थालीको बिचमा राखेर कुश वा बुढी औँलाले छुँदै प्राणप्रतिष्ठाको मन्त्र पढ्ने) –
ॐ आं ह्रीम् क्रौम् यं रं लं वं शं षं सं हं सः सोहं रमासहितस्य श्रीसत्यनारायणस्य प्राणा इह प्राणाः ।
ॐ आं ह्रीम् क्रौम् यं रं लं वं शं षं सं हं सः सोहं रमासहितस्य श्रीसत्यनारायणस्य जीव इह स्थितः ।
ॐ आं ह्रीम् क्रौम् यं रं लं वं शं षं सं हं सः सोहं रमासहितस्य श्रीसत्यनारायणस्य सर्वेन्द्रियाणि वाङ्मनस्त्वक्चक्षुः श्रोत्रजिह्वा घ्राणपाणिपाद पायूपस्थानि इहागत्य यथा सुखं चिरं तिष्ठन्तु नमः ।
ॐ मनो जूतिर्जुषता माज्ज्यस्य बृहस्पतिर्ॺज्ञ मिमन्तनोत्वरिष्टं ॺज्ञ ᳯ समिमन्दधातु । विश्वेदेवासऽइह मा दयन्तामों३ प्रतिष्ठ ।।
ध्यानम् –
ॐ ध्यायेत् सत्यं गुणातीतं गुणत्रयसमन्वितम् । लोकनाथं त्रिलोकेशं कौस्तुभाभरणं हरिम् ।।
सुलोचनं चतुर्बाहुं शङ्खचक्र गदाधरम् । किरीटिनं कुण्डलिनं वनमालाविभूषितम् ।।
कङ्कणाङ्गुलिभूषाभिः केयूरैश्च विराजितम् । गोविन्दं गोकुलानन्दं ब्रह्माद्यैरभिपूजितम् ।।
ध्यानं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
आवाहनम् – (दुवै हात देखाउने)–
ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्त्रपात् । स भूमिᳯ सर्वत स्पृत्त्वाऽत्यतिष्ठ्ठद् दशाङ्गुलम् ।।
ॐ भूर्भुवः स्वः रमासहित श्रीसत्यनारायण इहागच्छ इह तिष्ठ मम पूजां गृहाण यावत्पूजां करोमि तावत्वं सुस्थिरो भव सुप्रसन्नो सुवरदो भव ।।
आसनम् – (कुश चढाउने) –
ॐ पुरुषऽएवेदᳯ सर्वं ज्यद्भूतम् ज्यच्च भाव्यम् । उतामृतत्वस्येशानो ॺदन्नेनातिरोहति ।।
नानारत्नसमायुक्तं मुक्ताहार विभुषितम् । आसनं देवदेवेश गृहाण परमेश्वर ।।
आसनं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ।।
पाद्यम् – (जल) –
ॐ एतावानस्य महिमातो ज्ज्यायाँश्श्च पूरुषः । पादोस्य व्विश्वा भूतानि त्रिपादस्यामृतं दिवि ।।
नानातीर्थाहृतं तोयं सुगन्धिं पुष्पमिश्रितम् । पाद्यं गृहाण देवेश विश्वरूप नमोऽस्तु ते ।।
पाद्यं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
अर्घ्यम् – (अर्घकाे जल) –
ॐ त्रिपादूर्ध्व ऽउदैत्पुरुषः पादोऽस्येहाभवत् पुनः । ततो विष्वङ् व्यक्रामत्साशनानशने ऽअभि ।।
गन्धाक्षतैश्च सहितं दधिदूर्वासमन्वितम् । अघ्र्यं गृहाण देवेश मया दत्तं हि भक्तितः ।।
अघ्र्यं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ।।
आचमनीयम् – (कपुर मिश्रित जल) –
ॐ ततो व्विराडजायत व्विराजोऽअधि पूरुषः । स जातोऽअत्यरिच्यत पश्चाद्भूमिमथो पुरः ।।
कर्पूरवासितं तोयं मन्दाकिन्याः समाहृतम् । आचम्यतां जगन्नाथ मया दत्तं हि भक्तितः ।।
आचमनीयम् समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
मधुपर्कम् – (दही, घ्यू र मह) –
ॐ दधि क्षौद्रमिदं शुभ्रं कपिलायाः सुगन्धिकम् । सुस्वादु मधुरं देव मधुपर्कं गृहाण भो ।।
मधुपर्कं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
पुनराचमनीयम् – (शुद्ध जल) –
ॐ तस्माद् द्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् । पशूँस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ॺे ।।
ॐ शुचिर्वाप्यशुचिर्वाऽपि यस्य स्मरणमात्रतः । शुद्धिमाप्नोति तस्मै ते पुनराचमनीयकम् ।।
पुनराचमनीयं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
पञ्चामृतम् स्नानम् (पञ्चामृतले छुट्टाछुट्टै स्नान गराउने)–
पयः स्नानम् – (दुधले स्नान) –
ॐ पयः पृथिव्यां पयऽओषधीषु पयो दिव्यन्तरिक्षे पयोधाः । पयस्वतीः प्रदिशः सन्तु मह्ॺम् ।।
देवाद्यैर्वन्दिता धेनुः सर्वकल्याणदायिनी । त्वं क्षीरस्नापितो देव नित्यं शोकहरो भव ।।
पयः स्नानं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
शुद्धोदकेन – (शुद्ध जल) –
ॐ आपोऽअस्मान्मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु । विश्वᳯहि रिप्रम्प्रवहन्ति देवीरुदिदाभ्यः शुचिरापूतऽएमि । दीक्षातपसोस्तनूरसि तान्त्वा शिवाᳯ शग्मां परिदधे भद्रं वण्र्णं पुष्यन् ।।
दध्ना – (दहीले स्नान) –
ॐ दधि क्राव्णोऽअकारिषञ्जिष्णोरश्वस्य व्वाजिनः । सुरभि नो मुखाकरत्प्रणऽआयूᳯ षि तारिषत् ।।
पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् । दध्यर्पितं मया देव स्नानार्थं प्रतिगृह्यताम् ।।
दधिस्नानं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
शुद्धोदकेन – (शुद्ध जल) –
ॐ आपोऽअस्मान्…
शुद्धोदकस्नानं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
घृतेन – (घ्यूले स्नान) –
ॐ घृतं मिमिक्षे घृतमस्य ॺोनिर्घृते श्रितो घृतम्वस्य धाम । अनुष्वधमावह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ।।
रसानामुत्तमं त्वाज्यं देवानां च सदाप्रियम् । तेन त्वं स्नापितो देव मम कान्तिप्रदो भव ।।
घृतस्नानं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
शुद्धोदकेन – (शुद्ध जल) –
ॐ आपोऽअस्मान्…
शुद्धोदकस्नानं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
मधुना – (महले स्नान) –
ॐ मधु व्वाताऽऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः ।।
मधुनक्तमुतोषसो मधुमत्पार्थिवᳯ रजः । मधुद्यौरस्तु नः पिता ।।
मधुमात्रो वनस्पतिर्मधुमाँऽअस्तु सूर्ॺः । माध्वीर्गावो भवन्तु नः ।।
यस्य धारणमात्रेण तृप्तिं यान्ति पितामहाः । मधुना स्नापितो देव नित्यं शोकहरो भव ।।
मधुस्नानं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
शुद्धोदकेन – (शुद्ध जल) –
ॐ आपोऽअस्मान्…..
शुद्धोदकस्नानं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
शर्करा – (सख्खरले स्नान)–
ॐ अपाᳯ रसमुद्वयसᳯ सूर्ॺे सन्तᳯसमाहितम् । अपाᳯ रसस्य ॺो रसस्तं वो गृह्णाम्युत्तममुपयामगृहीतोसीन्द्राय त्वा जुष्टङ् गृह्णाम्येष ते ॺोनिरिन्द्राय त्वा जुष्टतमम् ।।
इक्षुसारसमुद्भूता शर्करा पुष्टिकारिका । मलापहारिणी दिव्या स्नानार्थं प्रतिगृह्यताम् ।।
शर्करास्नानं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
शुद्धोदकेन – (शुद्ध जल) –
ॐ आपोऽअस्मान्…..
शुद्धोदकस्नानं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
गन्धोदकस्नानम् – (चन्दन मिश्रित जल) –
ॐ अᳯ शुनाते अᳯशुः पृच्यतां परुषापरुः । गन्धस्ते सोममवतु मदाय रसोऽअच्युतः ।।
नानासुगन्धिद्रव्यं च चन्दनं रजनीयुतम् । उद्वर्तनं मया दत्तं गृहाण तव केशव ।।
गन्धोदकस्नानं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
शुद्धोदकेन – (शुद्ध जल) –
ॐ आपोऽअस्मान्…..
शुद्धोदकस्नानं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
वस्त्रम् – (पीताम्बरादि वस्त्र) –
ॐ तस्माद्यज्ञात् सर्वहुतऽऋचः सामानि जज्ञिरे । छन्दाᳯ सि जज्ञिरे तस्माद्यजुस्तस्मादजायत ।।
पीताम्बरयुगं देव सर्वकामार्थसिद्धये । मया निवेदितं भक्त्या गृहाण जगदीश्वर ।।
वस्त्रयुग्मं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
यज्ञोपवीतम् – (जनै) –
ॐ तस्मादश्वाऽअजायन्त ॺे के चोभयादतः । गावो ह जज्ञिरे तस्मात् तस्माज्जाताऽअजावयः ।।
दामोदर नमस्तेऽस्तु त्राहि मां भवसागरात् । ब्रह्मसूत्रं सोत्तरीयं गृहाण जगदीश्वर ।।
यज्ञोपवीतं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ।।
आभूषणादीनि – (गरहना) –
ॐ किरीटकुण्डलादीनि काञ्चीवलययुग्मकम् । कौस्तुभं वनमालां च भूषणानि भजस्व भो ।।
आभूषणं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
चन्दनम् – (श्रीखण्ड चन्दन) –
ॐ तं ॺज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः । तेन देवाऽअयजन्त साध्याऽऋषयश्च ये ।।
श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् । विलेपनं सुरश्रेष्ठ प्रीत्यर्थं प्रतिगृह्यताम् ।।
चन्दनानुलेपनं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
तिलयवा – (जौ तिल) –
ॐ धान्यराजाः स्वमाङ्गल्या विष्णुप्रीतिकरा यवाः । तस्मादेषां प्रदानेन ममास्त्वविकलं फलम् ।।
पुष्पम् – (फूल÷माला) –
ॐ श्रीश्चते लक्ष्मीश्च पत्क्न्यावहोरात्रे पाश्र्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् । इष्णन्निषाणामुम्मऽइषाण सर्वलोकम्मऽइषाण ।।
इमानि पुष्पाणि मनोहराणि सुरासुराणामपि दुर्लभानि । कल्पद्रुमादि द्रुमजानि तानि पुष्पाञ्जलिर्मेऽस्तु सुखाय नित्यम् ।।
विविधपुष्पाणि समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
सिन्दूरम् – (लक्ष्मीको लागि सिन्दुर र सौभाग्य) ः–
सिन्दूरं च वरं रम्यं भाले शोभाविवर्धनम् । पूरणं भूषणानाञ्च सिन्दूरं प्रतिगृह्यताम् ।।
दिव्यरत्नसमायुक्ता वह्निभानुसमप्रभाः । गात्राणि शोभयिष्यन्ति ह्यलङ्काराः सुरेश्वरि ।।
सौभाग्यद्रव्याणि समर्पयामि श्रीरमायैः नमः ।
अङ्गपूजा – (जौ, तिल,फूल, तुलसीपत्र आदिले अङ्गपूजा गर्ने) ः–
ॐ विष्णवे नमः, पादौ पूजयामि । ॐ नारायणाय नमः, जङ्घे पूजयामि । ॐ केशवाय नमः, गुल्फौ पूजयामि । ॐ रामाय नमः, जानुनी पूजयामि । ॐ कृष्णाय नमः, मेढ्रं पूजयामि । ॐ नृसिंहाय नमः, नाभिं पूजयामि । ॐ दामोदराय नमः, हृदयं पूजयामि । ॐ जनार्दनाय नमः, कण्ठं पूजयामि । ॐ श्रीधराय नमः, बाहून् पूजयामि । ॐ वाचस्पतये नमः, मुखं पूजयामि । ॐ जगन्नाथाय नमः, ललाटं पूजयामि । ॐ सर्वात्मने नमः, शिरः पूजयामि । ॐ सत्यनारायणाय नमः, सर्वाङ्गं पूजयामि ।
तुलसीपत्राणि – (तुलसीपत्र÷मञ्जरी) –
ॐ ॺत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् । मुखं किमस्यासीत् किं बाहू किमूरू पादाऽउच्येते ।।
तुलसीं रत्नरूपां च हेमरूपां च मञ्जरीम् । भवमोक्षप्रदां नित्यमर्पयामि हरिप्रियाम् ।।
तुलसीपत्रं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
धूप – (धूप बाल्ने) –
ॐ ब्राह्मणोऽस्य मुखमासीद्बाहूराजन्यः कृतः । ऊरू तदस्य ॺद्वैश्यः पद्भ्याᳯ शूद्रोऽअजायत ।।११।।
वनस्पतिरसोद्भूतो गन्धाढ्यो सुमनोहरम् । आघे्रयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ।।
धूपं आघ्रापयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
दीप – (बत्ती बाल्ने) –
ॐ चन्द्रमा मनसो जातश्चक्षोः सूर्ॺोऽअजायत । श्श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ।।
आज्यं च वर्ति संयुक्तं वह्निना योजितं मया । दीपं गृहाण देवेश त्रैलोक्य तिमिरापहम् ।।
दीपं दर्शयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
नैवेद्यम् – (पकाएको नैवेद्य) –
ॐ नाभ्याऽआसीदन्तरिक्षᳯ शीर्ष्णो द्यौः समवर्तत । पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोका २ँ।। ऽअकल्पयन् ।।
अन्नं चतुर्विधं स्वादु रसैः षड्भिः समन्वितम् । भक्ष्य भोज्य समायुक्तं नैवेद्यं प्रतिगृह्यताम् ।।
नैवेद्यं समर्पयामि श्रीरमासहिताय श्रीसत्यनारायणाय नमः ।
ऋतुफलम् – (फलफूल) –
ॐ ॺाः फलीनीर्ॺाऽअफलाऽअपुष्पा ॺाश्च पुष्पिणीः । बृहस्पति प्रसूतास्ता नो मुञ्चन्त्वᳯ हसः ।।
ॐ इदं फलं मया देव स्थापितं पुरतस्तव । तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ।।
फलादिनैवेद्यं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
अपूपम् – (अपूङ्गो) –
ॐ त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पितम् । गृहाण सुमुखो भूत्वा प्रसीद परमेश्वर ।।
रम्भाफलं घृतं क्षीरं गोधूमस्य च चूर्णकम् । जातीपत्र लवङ्गैला शर्करागुडमिश्रितम् ।।
सपादं सर्वभक्ष्याणि चैकीकृत्य निवेदितम् । मया श्रद्धावता देव गृहाण जगदीश्वर ।।
अपूपनैवेद्यं समर्पयामि श्रीरमासहिताय श्रीसत्यनारायणाय नमः ।
आचमनीयम् – (जल) –
ॐ ॺत्पुरुषेण हविषा देवा ॺज्ञमतन्वत । व्वसन्तोऽस्यासीदाज्ज्यङ्ग्रीष्मऽइध्मः शरद्धविः ।।
कर्पूरवासितं तोयं सुगन्धिं सुमनोहरम् । आचम्यतां जगन्नाथ मया दत्तं हि भक्तितः ।।
आचमनीयं समर्पयामि श्रीरमासहिताय श्रीसत्यनाराणाय नमः ।
करोद्वर्तनम् – (चन्दन) –
ॐ श्रीखण्डं चन्दनं दिव्यं कर्पूरागरुमिश्रितम् । करोद्वर्तनकं देव गृहाण परमेश्वर ।।
करोद्वर्तनं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
फलम् – (नरिवल) –
ॐ इदं फलं मया देव स्थापितं पुरतस्तव । तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ।।
नारिकेलादिफलं समर्पयामि रमासहिताय सत्यनारायणाय नमः ।
ताम्बूलम् – (पान÷सुपारी) –
ॐ पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् । एलाचूर्णादिसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ।।
ताम्बूलं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
दक्षिणा – (भेटी) –
ॐ हिरण्यगर्भ गर्भस्थं हेमबीजं विभावसोः । अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ।।
दक्षिणाद्रव्यं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
चामरम् – (चमरले हम्कने) –
ॐ शशाङ्क करसंकाशं हिमडिंडिरपाण्डुरम् । प्रोत्सारयासु दुरितं चामरामरवल्लभ ।।
चामरं दोलयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
व्यजनम् – (मयूरको प्वाँखले हम्कने) –
ॐ शिखिपुङ्खसमायुक्तं शैत्यमानन्ददायकम् । व्यजनं दोलयामित्वामतः शान्तिं प्रयच्छ मे ।।
व्यजनं दोलयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
दर्पणम् – (ऐना देखाउने) –
ॐ दर्शनेन त्वमादर्श नूनं मङ्गलदायकः । शौर्य सौभाग्य सत्कीर्तिर्निर्मल ज्ञानदो भव ।।
दर्पणं दर्शयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
(माथिको पूजा सकिएपछि आफ्नो दीक्षा मन्त्र वा “ॐ नमो भगवते वासुदेवाय” भन्ने मन्त्र यथाशक्ति जप्ने)
नीराजनम् (आरती) –
ॐ आ रात्रि पार्थिवᳯरजः पितुरप्रायि धामभिः । दिवः सदाᳯ सि बृहती वितिष्ठसऽआ त्वेषं वर्तते तमः ।।
ॐ इदᳯहविः प्रजननम्मेऽअस्तु दशवीरᳯसर्वगणᳯ स्वस्तये । आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि । अग्निः प्रजां बहुलाम्मे करोत्वन्नम्पयो रेतोऽअस्मासु धत्त ।।
ॐ घृत वर्तिसमायुक्तं वह्निना योजितं मया । आरार्तिक्य प्रदानेन सन्तुष्टो भव सर्वदा ।।
चन्द्रादित्यौ च धरणीविद्युदग्निस्तथैव च । त्वमेव सर्वज्योतींषि तेन नीराजयाम्यहम् ।।
नीराजनं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
कर्पूरदीप – (कपूर आरती) –
ॐ अग्निज्र्योतिज्र्योतिरग्निः स्वाहा सूर्ॺो ज्योतिज्र्योतिः सूर्ॺः स्वाहा । अग्निर्वर्चो ज्योतिव्र्वर्चः स्वाहा सूर्ॺो वर्चो ज्योतिर्वचः स्वाहा । ज्योतिः सूर्ॺः सूर्ॺो ज्योतिः स्वाहा ।।
कदलीगर्भसंभूतं घनसारं मनोहरम् । आरार्तिक्यमहं कुर्वे पश्य मे वरदो भव ।।
कर्पूरारार्तिक्यं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
पुष्पाञ्जलि – (फूल तुलसीपत्र लिएर हात जोड्ने) ः–
ॐ ॺज्ञेन ॺज्ञमयजन् तदेवास्तानि धर्म्माणि प्रथमान्यासन् । ते ह नाकम्महिमानः सचन्त ॺत्र पूर्वे साध्याः सन्ति देवाः ।।
ॐ सशङ्ख चक्रं सकिरीट कुण्डलं, सपीतवस्त्रं सरसीरुहेक्षणम् ।
सहारवक्षस्थल कौस्तुभश्रियं नमामि विष्णुं शिरसा चतुर्भुजम् ।।
ॐ नमो भगवते तुभ्यं सत्यनारायणाय ते । नमस्ते विश्वरूपाय शङ्खचव्रmगदाभृते ।।
पद्मनाभाय देवाय हृषीकपतये नमः । नमस्तेऽनन्तरूपाय त्रिगुणात्मविभाविने ।।
लक्ष्मीकान्ताय देवाय जगदानन्दकारिणे । सहस्रशिरसे तुभ्यं वाग्विभूतिकृते नमः ।।
मन्त्रपुष्पाञ्जलीं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
प्रदक्षिणा – (जल घुमाउने) –
ॐ सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः । देवा ॺद् द्यज्ज्ञन्तन्वानाऽअबध्नन् पुरुषं पशुम् ।।
यानि कानि च पापानि जन्मान्तरकृतानि च । तानि सर्वाणी नश्यन्तु प्रदक्षिणपदे पदे ।।
प्रदक्षिणां समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
बद्धाञ्जलि – (खाली हात जोड्ने) –
ॐ सत्यनारायणं देवं वन्देऽहं कामदं विभुम् । लीलया विततं विश्वं येन तस्मै नमो नमः ।।
प्रणमामि सदा सत्यं सत्यनारायणं गुरुम् । अमोघं पुण्डरीकाक्षं नृसिंहं दैत्यसूदनम् ।
हृषीकेशं जगन्नाथं वागीशं वरदायकम् ।। योगेश्वरं गुणातीतं गोविन्दं गरुडध्वजम् ।
जनार्दनं व्रजानन्दं श्रीवल्लभमधीश्वरम् ।। सत्यनारायणं देवं वन्देऽहं कामदं विभुम् ।
लीलया रचितं विश्वं येन तस्मै नमो नमः ।। प्रणमामि सदा सत्यं सत्यनारायणं परम् ।
दुर्गमे विषमे घोरे शत्रुभिः परिपीडिते ।। विविधापत्सु घोरेषु दुःखेष्वपि च यद्भयम् ।
विनाशाय सदादेव तत्सर्वमुपसर्गकम् ।। त्वन्मायामोहिताः सर्वे ब्रह्माद्यास्त्रिदिवौकसः ।
न जानन्ति गुणं रूपं तवाश्चर्यमिदं प्रभो ।। मूढोऽहं त्वां कथं जाने मोहितस्तव मायया ।
प्रसीद पूजितो भक्त्या यथाविभवविस्तरैः ।। पुत्रं वित्तं च मच्चित्तं पाहि मां शरणागतम् ।
शरणं तं प्रपद्येऽहं सर्वकामार्थसिद्धये ।। प्रणमामि सदा सत्यं देवं नारायणं गुरुम् ।
प्रार्थनापूर्वकं नमस्कारं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
विशेषार्घ्यम् दद्यात् – (अर्घ चढाउने) ः–
ॐ जातो दैत्यवधार्थाय देवानां पालनाय च । तस्मै देवाय सत्याय सगुणाय महात्मने ।।
व्यक्ताव्यक्तस्वरूपाय हृषीकपतये नमः । गृहाणाघ्र्यं मया दत्तं रमया सहित प्रभो ।।
विशेषाघ्र्यं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ।
शङ्खार्घ्यम् – (शङ्खार्घ्य चढाउने) ः–
ॐ यद्दत्तं भक्तिमात्रेण पत्रं पुष्पं फलं जलम् । निवेदितं च नैवेद्यं गृहाण चानुकम्पया ।।
मन्त्रहीनं क्रियाहीनं विधिहीनं सुरेश्वर । यत्पूजितं मया देव परिपूर्णं तदस्तु मे ।।
साधु वाऽसाधु यत् कर्म यद्यदाचरितं मया । तत्सर्वं क्षम्यतां देव गृहाण परमेश्वर ।।
शङ्खार्घ्यं समर्पयामि श्रीरमासहिताय श्रीसत्यनारायणाय नमः ।
(यसपछि अर्घ्य र शङ्खार्घ्य दुवै पात्रलाई आफूतर्फ फर्काएर पूजा गरी फेरी पूर्व फर्काएर राखिदिने ।)
क्षमापनम् – (खाली हात जोडेर प्रार्थना गर्ने) –
ॐ त्राहि मां सर्वग श्रीश हरे संसारसागरात् । पुष्कराक्ष निमग्नोऽहं मायाविज्ञानमत्सरात् ।।
त्राहि मां देवदेवेश त्वत्तो नास्तीह रक्षिता ।।
ब्राह्मणद्वारा सत्यनारायण व्रतकथां श्रुत्वा तदनन्तरं पुनः संक्षिप्त विधिना सत्यनारायण पूजनं तथा आरार्तिक्यं, पुष्पाञ्जलीं च कृत्वा पूर्णपात्रदानं कुर्यात् । (कथा सुन्ने भए ब्राह्मणबाट कथा सुन्नु र त्यसपछि पुनः संक्षिप्त सत्यनारायणको पूजा गरेर आरती÷पुष्पाञ्जली पनि गरी पूर्णपात्र गर्नु ।)
पूर्णपात्रम् –
रौप्यं, ताम्रं, मृण्मयं वा यत्संभवं पात्रं फलवस्त्रद्रव्यसहितं षट्पञ्चाशदधिकद्विशतमुष्टि (२५६) परिमितं बहुभोक्तृपुरुषाहारपरिमितं वा तण्डुलयुतं पूर्णपात्रं सम्पूज्य –
(पूर्णपात्रको लागि २५६ मुठी वा धेरै खाने मानिसलाई एकपटकमा पुग्नेजति चामलमा फल, जनै, सुपारी र द्रव्य सहित राखेर पूजा गर्ने) –
ॐ पूर्णादर्वि परापत सुपूर्णा पुनरापत । वस्नेव विक्री णावहाऽइषमूर्जᳯशतक्रतो ।।
कुशादिकमादाय – (कुशपानी लिएर संकल्प गर्ने) –
अद्येह पूर्वसंकल्पसिद्धिरस्तु……….गोत्र……….. शर्मा÷वर्मा÷गुप्त÷दासः सपरिवारसहितोऽहं मम आयुरारोग्य ऐश्वर्योत्तरोत्तर हर्षविजयोदयपूर्वकं दारिद्र्य दुःखदुर्भिक्ष्य–दौर्मनस्य दौर्भाग्योपसर्ग–महामारी–त्रासोल्कापात–निर्घातभूकम्पादि–सूचित–सकल–दोषोपशान्त्यर्थं दुःस्वप्न–सुस्वप्नता–वाप्तिपूर्वक–बालग्रह दशान्तर्दशा गोचरदशादि सकलदोषोपशमनार्थं बाह्याभ्यन्तर ज्वरातिसारापस्मार श्वासकासादि समस्तरोगाणां झटिति निवृत्तिपूर्वकमारोग्यतावाप्तये विशेषतः आध्यात्मिकाधिदैविकाधिभौतिकादि तापत्रयोपशमनपूर्वक धर्मार्थकाममोक्षादि चतुर्विध–फलप्राप्तये श्रुतिस्मृतिपुराणोक्त फलप्राप्त्यर्थं अद्य कृतैतत् दीपकलशगणेशपूजन पूर्वकं साङ्गसपरिवार रमासहितश्रीसत्यनारायण पूजनकर्मणः अपूर्णस्य परिपूरणार्थमिदं पूर्णपात्रं प्रजापतिदैवतं ………..गोत्राय… शर्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददे ।
दक्षिणासङ्कल्पः (भूयसी दक्षिणा) –
हरिः ॐ तत्सत् पूर्वसंकल्प सिद्धिरस्तु ……………..गोत्र ……………..अहं मम श्रुतिस्मृतिपुराणोक्त फलावाप्तिपूर्वकं मनोवाञ्छासिद्ध्यर्थं श्रीसत्यनारायण व्रताङ्गत्वेन कृतस्य दीपकलशगणेश गणपत्यादि–वनस्पत्यन्तदेवता पूजनपूर्वकं साङ्गपरिवाररमासहित श्रीसत्यनारायणपूजनकर्मणः न्यूनातिरिक्तता परिपूर्तिपूर्वकं यथोक्तफल प्राप्त्यर्थमिदं दक्षिणाद्रव्यम् (अमुक) दैवतं नानानामगोत्रेभ्यो नानानामशर्मभ्यो ब्राह्मणेभ्यो दीनानाथेभ्यश्च यथायोग्यभागं विभज्य यथाकाले दातुमहमुत्सृजे ।
विसर्जनम् – (फूलपाती चढाएर विसर्जन गर्ने) ः–
ॐ यान्तु देवगणाः सर्वे पूजामादाय पार्थिवीम् । इष्टकामप्रसिद्ध्यर्थं पुनरागमनाय च ।।
गच्छ गच्छ सुरश्रेष्ठ स्वस्थानं परमेश्वर । यत्र ब्रह्मादयो देवास्तत्र गच्छ सुरेश्वर ।।
आवाहनं न जानामि न जानामि विसर्जनम् । पूजां चैव न जानामि क्षम्यतां परमेश्वर ।।
कर्मेश्वरार्पणम् – (कुुशको औँठी खोलेर जलसहित हातमा लिएर भुईंमा राखिदिने) –
ॐ कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वानुसृतः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ।।
प्रार्थना – (खाली हात जोड्ने) –
ॐ यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु । न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ।।
ॐ अच्युताय नमः ३
ॐ चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च । हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु ।।
ॐ विष्णवे नमः ३ । कर्मेश्वरार्पणमस्तु ।
आशिषमन्त्रपाठ –
गन्धपुष्पप्रसादादिकं हस्तेन गृहीत्वा –
(यसरी पूजा सम्पन्न भएपछि सबै कलशको जल झिकेर कर्मपात्रमा राखी अभिषेक गर्ने र तलको आशिर्वादका मन्त्र पढेर कुलपितृहरूलाई प्रसाद छुट्याई टीकाटालो गर्ने) –
हरिः ॐ आब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायतामा राष्ट्रे राजन्यः शूरऽइषव्योतिव्व्याधी महारथो जायतान्दोग्ध्री धेनुर्वोढानड्वानाशुः सप्तिः पुरन्धिर्योषा जिष्णू रथेष्ठाः सभेयो ॺुवास्य ॺजमानस्य वीरो जायतां निकामे निकामे नः पर्जन्यो वर्षतु फलवत्यो नऽओषधयः पच्यन्तां ॺोगक्षेमो नः कल्पताम् ।।
ॐ दीर्घायुस्तऽओषधे खनिता ॺस्मै च त्वा खनाम्यहम् । अथो त्वन्दीर्घायुर्भूत्वा शतवल्शा विरोहतात् ।।
ॐ पुनस्त्वादित्या रुद्रावसवः समिन्धतां पुनब्र्रह्माणो वसुनीथ ॺज्ञैः । घृतेन त्वं तन्वं वर्धयस्व सत्याः सन्तु ॺजमानस्य कामाः ।।
ॐ मनसः काममा कूतिं वाचः सत्यमशीय । पशूनाᳯ रूपमत्रस्य रसो ॺशः श्रीः श्रयताम् ।।
(यजमानलाई टीका लगाइदिने मन्त्र) ः–
ॐ श्रीर्वर्चस्वमायुष्यमारोग्यमाविधात् पवमानं महीयते । धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ।।
ॐ स्वस्त्यस्तु ते कुशलमस्तु चिरायुरस्तु गोवाजि हस्ति धनधान्य समृद्धिरस्तु ।
ऐश्वर्यमस्तु विजयोऽस्तु रिपुक्षयोऽस्तु सन्तानवृद्धिसहिता हरिभक्तिरस्तु ।।
।। इति सत्यनारायण पूजा विधि ।।





