रक्षाबन्धनपूजनम् –
यव–कुश–दूर्वा–सर्षप–चन्दन–गोमय–हरिद्रा–दधिसहितां रक्षां ताम्रपात्रे निधाय पात्रं स्पृशन् नारायणकवचं पठेत् – (तामाको थालीमा जौ, कुश, दुबो, सर्स्यूँ, चन्दन, गोबर, बेसार, दही र रक्षाबन्धनको धागो तथा सोही सामाग्री राखेर तयार गरिएको पोटलिका पनि राख्ने र छुँदै यो कवच पढ्ने) –
ॐ पूर्वे रक्षतु गोविन्द आग्नेय्यां धरणीधरः । याम्यां रक्षतु वाराहो नारसिंहस्तु नैर्ऋते ।।
वारुण्यां केशवो रक्षेद् वायव्यां मधुसूदनः । उत्तरे श्रीधरो रक्षेदधस्तात्तु महीधरः ।।
एवं दशदिशो रक्षेद् वासुदेवो जनार्दनः । यज्ञाग्रे रक्षताच्छङ्खः पृष्ठे वै पद्ममुत्तमम् ।।
वामपार्श्वे गदा रक्षेद् दक्षिणे तु सुदर्शनः । उपेन्द्रः पातु ब्रह्माणमाचार्यं पातु वामनः ।।
ऋग्वेदमच्युतो रक्षेद्यजुर्वेदमधोक्षजः । कृष्णो रक्षतु सामानमथर्वाणञ्च माधवः ।।
उपविष्टाँश्च विप्राँस्ताननिरुद्धोऽभिरक्षतु । यजमानं सपत्नीकं पुण्डरीकाक्ष एव तु ।।
रक्षाहीनं तु यत्स्थानं तत्सर्वं रक्षताद्धरिः । वेदमन्त्रैश्च कर्तव्या रक्षा शुभ्रैस्तु सर्षपैः ।।
कृत्वा पोटलिकां पूर्वं बध्नीयाद्दक्षिणे करे ।।
ततः रक्षासूत्रं पूजयेत् – (रक्षाबन्धनको धागोलाई पूजा गर्ने) –
ॐ रक्षोहणं बलगहनं वैष्णवीमिदमहन्तं बलगमुत्किरामि ॺम्मे निष्ठ्यो ॺममात्यो निचखाने दमहन्तं बलगमुत्किरामि ॺम्मे समानो यमसमानो निचखानेदमहन्तं बलगमुत्किरामि ॺम्मे सबन्धुर्ॺम सबन्धुर्निचखाने दमहन्तं बलगमुत्किरामि ॺम्मे सजातो ॺमसजातो निचखानोत्कृत्याङ्किरामि ।।
ॐ स्वराडसि सपत्नहा सत्रराडस्यभिमातिहा । जनराडसि रक्षोहा सर्वराडस्यमित्रहा ।।
ॐ रक्षोहणो वो बलगहनः प्रोक्षामि वैष्णवान्न्रक्षोहणो वो बलगहनो वनयामि वैष्णवान्न्रक्षोहणो वो बलगहनो वस्तृणामि वैष्णवान्न्रक्षोहणौ वां बलगहनाऽ उपदधामि वैष्णवी रक्षोहणौ वाम्बलगहनौ पर्ॺूहामि वैष्णवी वैष्णवमसि वैष्णवास्थ ।।
ॐ सप्तऽऋषयः प्रतिहिताः शरीरे सप्तरक्षन्ति सदमप्प्रमादम् । सप्तापः स्वपतो लोकमीयुस्तत्र जागृतोऽअस्वप्नजौ सत्रसदौ च देवौ ।।
ॐ त्वं ॺविष्ठदाशुषो नृृृँः पाहि श्रृणुधीगिरः ।। रक्षातोक मुतत्क्मना ।।
।। इति रक्षाबन्धनपूजा ।।
(रक्षाबन्धनलाई कलशमा राखिदिने र कर्म समाप्त भएपछि यजमानको हातमा बाँध्ने ।)
कलशस्कन्धप्रदेश पूजा –
तल दिइएको प्रत्येक नाम मन्त्रले ईशान कलशमा देवताहरुको आवाहन गरेर पाद्यादिले पूजा गर्ने
ॐ गणपतिसूर्यदेवीशिवविष्णूभ्यो नमः ।
ॐ विनायकदुर्गावाय्वाकाशाश्विनीकुमारेभ्यो नमः ।
ॐ सूर्यसोमभौमबुधबृहस्पतिशुक्र शनिराहुकेतूभ्यो नमः ।
ॐ ईश्वरोमास्कन्दहरिब्रह्मेन्द्रयमकालचित्रगुप्तेभ्यो नमः ।
ॐ अग्निअप्भूमिविष्णु–इन्द्रेन्द्राणीप्रजापतिसर्पब्रह्मणेभ्यो नमः ।
ॐ इन्द्राग्नियमनिर्ऋतिवरुणवायुसोमेशानब्रह्मानन्तेभ्यो नमः ।
ॐ ध्रुवाद्यष्टवसूभ्यो नमः ।
ॐ धात्रादिद्वादशादित्यभ्यो नमः ।
ॐ वीरभद्राद्येकादशरुद्रेभ्यो नमः ।
ॐ गौर्यादिषोडशमातृभ्यो नमः ।
ॐ आवहादिसप्तमरुद्भ्यो नमः ।
ॐ विनायकब्रह्मविष्णुरुद्रार्कवनस्पतीभ्यो नमः ।
ॐ आत्मन इष्टदेवताभ्यो नमः । ॐ कुलदेवताभ्यो नमः ।
ॐ ग्रामदेवताभ्यो नमः ।
ॐ स्थानदेवताभ्यो नमः ।
स्थानीय देवता र परम्पराबाट मान्दै आएका देवताहरुको पनि आवाहन गर्ने । यसरी आवाहन गरेपछि ईशान कलशमा सबै सामाग्रीले पूजा गर्ने ः–
भो गणपत्यादि देवाः इहागच्छत इहतिष्ठत यावत् पूजां करोमि तावत् यूयं सुस्थिरा भवत सुप्रसन्ना बरदा भवत ।।
अब–पाद्यम्, अर्घ्यम्, आचमनीयम्, पञ्चामृतम्, शुद्धोदकस्नानम्, इदं लेपनम्, चन्दनम्, सिन्दूरम्, अवीर चूर्णम्, अक्षतान्, यवान्, तिलान्, पुष्पाणि, धूपम्, दीपम्, नैवेद्यं, द्रव्यम् समर्पयामि गणपत्यादि देवताभ्यो नमः ।। (सबै सामाग्रीले पूजा गर्ने ।)
पुष्पाञ्जलि – (फूल लिएर हात जोड्ने) –
ॐ ब्रह्मा मुरारिस्त्रिपुरान्तकारी भानुः शशी भूमिसूतो बुधश्च ।
गुरुश्च शुक्रः शनिराहुकेतवः सर्वे ग्रहा शान्तिकरा भवन्तु ।।
ॐ सूर्यः शौर्यमथेन्दुरुच्चपदवीं सन्मङ्गलं मङ्गलः । सद्बुद्धिं च बुधो गुरुश्च गुरुतां शुक्रः सुखं शं शनिः ।
राहुर्बाहुबलं करोतु सततं केतुः कुलस्योन्नतिं । नित्यं प्रीतिकरा भवन्तु मम ते सर्वेऽनुकूला ग्रहाः ।।





