देवताहरुलाइ अर्घ्य दिने मन्त्रः

सूर्यको लागि –
ॐ एहि सूर्य सहस्रांशो तेजोराशेः जगत्पते । अनुकम्पय मां भक्त्या गृहाणार्घ्यं दिवाकर ।।

गणेशको लागि –
ॐ रक्ष रक्ष गणाध्यक्ष रक्ष त्रैलोक्य रक्षकः ।
भक्तानामभयं कर्ता त्राता भव भवार्णवात् ।
द्वैमातुर कृपासिन्धो षाण्मातुराग्रज प्रभो ।
वरदस्त्वं वरं देहि वाञ्छितं वाञ्छितार्थद ।
अनेन सफलार्घ्येण फलदोऽस्तु सदा मम ।

शिवको लागि–
ॐ नमस्ते पार्वतीनाथ त्रैलोक्यवरदर्षभ । त्र्यम्बकेश महादेव गृहाणार्घ्यं नमोऽस्तुते ।।

देवीको लागि–
ॐ नमस्ते देवदेवेशि प्रपन्न भयहारिणि । अम्बिके वरदे देवि गृहाणार्घ्यं नमोऽस्तुते ।।

विष्णु यज्ञको लागि–
ॐ जातो दैत्यवधार्थाय देवानां पालनाय च । तस्मै देवाय सत्याय सगुणाय महात्मने ।।
व्यक्ताव्यक्तस्वरूपाय हृषीकपतये नमः । गृहाणार्घ्यं मया दत्तं रमया सहित प्रभो ।।
ॐ यद्दत्तं भक्तिमात्रेण पत्रं पुष्पं फलं जलम् । निवेदितं च नैवेद्यं गृहाण चानुकम्पया ।।
मन्त्रहीनं क्रियाहीनं विधिहीनं सुरेश्वर । यत्पूजितं मया देव परिपूर्णं तदस्तु मे ।।
साधु वाऽसाधु यत् कर्म यद्यदाचरितं मया । तत्सर्वं क्षम्यतां देव गृहाण परमेश्वर ।।

कमेन्ट छाेड्नुहाेस्

Please enter your comment!
Please enter your name here